श्रीगुर्वष्टकम्
श्रीगुर्वष्टकम् का मूल देवनागरी पाठ स्रोत सहित पढ़ें, कॉपी करें, डाउनलोड करें या प्रिंट लें।
शरीरं सुरूपं तथा वा कलत्रम्
यशश्चारु चित्रं धनं मेरु तुल्यम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे,
ततः किं ततः किं ततः किं ततः किम् ।।१।।
कलत्रं धनं पुत्र पौत्रादिसर्वम्
गृहे बान्धवाः सर्वमेतद्धि जातम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे,
ततः किं ततः किं ततः किं ततः किम् ।।२।।
षडङ्गादिवेदो मुखे शास्त्रविद्या,
कवित्वादि गद्यं सुपद्यं करोति ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे,
ततः किं ततः किं ततः किं ततः किम् ।।३।।
विदेशेषु मान्यः स्वदेशेषु धन्यः,
सदाचारवृत्तेषु मत्तो न चान्यः ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे,
ततः किं ततः किं ततः किं ततः किम् ।।४।।
क्षमामण्डले भूपभूपालबृन्दैः,
सदा सेवितं यस्य पादारविन्दम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे,
ततः किं ततः किं ततः किं ततः किम् ।।५।।
यशो मे गतं दिक्षु दानप्रतापात्,
जगद्वस्तु सर्वं करे यत्प्रसादात् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे,
ततः किं ततः किं ततः किं ततः किम् ।।६।।
न भोगे न योगे न वा वाजिराजौ,
न कन्तामुखे नैव वित्तेषु चित्तम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे,
ततः किं ततः किं ततः किं ततः किम् ।।७।।
अरण्ये न वा स्वस्य गेहे न कार्ये,
न देहे मनो वर्तते मे त्वनर्ध्ये ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे,
ततः किं ततः किं ततः किं ततः किम् ।।८।।
गुरोरष्टकं यः पठेत्पुण्यदेही,
यतिर्भूपतिर्ब्रह्मचारी च गेही ।
लभेद्वाच्छितार्थं पदं ब्रह्मसंज्ञं,
गुरोरुक्तवाक्ये मनो यस्य लग्नम् ।।९।।
श्रीगुर्वष्टकम् — sa.wikisource.org contributors
परिवर्तन: स्रोत HTML को साधारण पाठ में बदला गया और लाइन-ब्रेक सामान्य किए गए। संग्रह से अलग की गई आरती में ड्राफ्ट संपादन निर्देश और संदर्भ अंक हटाए गए हैं। डाउनलोड में श्रेय और वही लाइसेंस रहता है। मूल लिपि में पाठ है; अंग्रेज़ी अनुवाद नहीं जोड़ा गया है।
पारंपरिक पाठांतर हो सकते हैं। विशेषज्ञ पाठ और भाषा समीक्षा अभी लंबित है। पाठ में आए कथन भक्ति परंपरा का भाग हैं; स्वास्थ्य, धन या अन्य परिणाम की गारंटी नहीं हैं।