गणेशमन्त्रः
गणेशमन्त्रः का मूल देवनागरी पाठ स्रोत सहित पढ़ें, कॉपी करें, डाउनलोड करें या प्रिंट लें।
गणादिं पूर्वमुच्चार्य वर्णादिं तदनंतरम् ||
अनुस्वारः परतरः ||अर्धेन्दुलसितम् ||तारेण ऋद्धम् ||
एतत्तव मनुस्वरूपम् ||गकारः पूर्वरूपम् ||
अकारो मध्यमरूपम् ||अनुस्वारश्चान्त्यरूपम् ||
बिन्दुरुत्तररूपम् ||नादः संधानम् ||
संहितासंधिः ||सैषा गणेशविद्या ||
गणकऋषिः ||निचृद्गायत्रीच्छंदः ||
गणपतिर्देवता ||ॐ गं गणपतये नमः ||७||
||गणेश गायत्री ||
एकदंताय विद्महे | वक्रतुण्डाय धीमहि ||
तन्नो दंतिः प्रचोदयात् ||८||
||गणेश रूप ||
एकदंतं चतुर्हस्तं पाशमंकुशधारिणम् ||
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ||
रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम् ||
रक्तगंधानुलिप्तांगं रक्तपुष्पैः सुपूजितम् ||
भक्तानुकंपिनं देवं जगत्कारणमच्युतम् ||
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ||
एवं ध्यायति यो नित्यं स योगी योगिनां वरः ||९||
||अष्ट नाम गणपति ||
नमो व्रातपतये | नमो गणपतये | नमः प्रमथपतये |
नमस्तेऽस्तु लंबोदरायैकदंताय |
विघ्ननाशिने शिवसुताय | श्रीवरदमूर्तये नमो नमः ||१०||
||फलश्रुति ||
एतदथर्वशीर्षं योऽधीते ||स ब्रह्मभूयाय कल्पते ||
स सर्वतः सुखमेधते ||स सर्व विघ्नैर्नबाध्यते ||
स पंचमहापापात्प्रमुच्यते ||
सायमधीयानो दिवसकृतं पापं नाशयति ||
प्रातरधीयानो रात्रिकृतं पापं नाशयति ||
सायंप्रातः प्रयुंजानो अपापो भवति ||
सर्वत्राधीयानोऽपविघ्नो भवति ||
धर्मार्थकाममोक्षं च विंदति ||
इदमथर्वशीर्षमशिष्याय न देयम् ||
यो यदि मोहाद्दास्यति स पापीयान् भवति
सहस्रावर्तनात् यं यं काममधीते
तं तमनेन साधयेत् ||११||
अनेन गणपतिमभिषिंचति स वाग्मी भवति ||
चतुर्थ्यामनश्नन् जपति स विद्यावान् भवति |
स यशोवान् भवति ||
इत्यथर्वणवाक्यम् ||ब्रह्माद्याचरणं विद्यात्
न बिभेति कदाचनेति ||१२||
यो दूर्वांकुरैर्यजति स वैश्रवणोपमो भवति ||
यो लाजैर्यजति स यशोवान् भवति ||
स मेधावान् भवति ||
यो मोदकसहस्रेण यजति
स वाञ्छितफलमवाप्नोति ||
यः साज्यसमिद्भिर्यजति
स सर्वं लभते स सर्वं लभते ||१३||
अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा
सूर्यवर्चस्वी भवति ||
सूर्यग्रहे महानद्यां प्रतिमासंनिधौ
वा जप्त्वा सिद्धमंत्रो भवति ||
महाविघ्नात्प्रमुच्यते ||महादोषात्प्रमुच्यते ||
महापापात् प्रमुच्यते ||
स सर्वविद्भवति स सर्वविद्भवति ||
य एवं वेद इत्युपनिषत् ||१४||
गणेशमन्त्रः — sa.wikisource.org contributors
परिवर्तन: स्रोत HTML को साधारण पाठ में बदला गया और लाइन-ब्रेक सामान्य किए गए। संग्रह से अलग की गई आरती में ड्राफ्ट संपादन निर्देश और संदर्भ अंक हटाए गए हैं। डाउनलोड में श्रेय और वही लाइसेंस रहता है। मूल लिपि में पाठ है; अंग्रेज़ी अनुवाद नहीं जोड़ा गया है।
पारंपरिक पाठांतर हो सकते हैं। विशेषज्ञ पाठ और भाषा समीक्षा अभी लंबित है। पाठ में आए कथन भक्ति परंपरा का भाग हैं; स्वास्थ्य, धन या अन्य परिणाम की गारंटी नहीं हैं।