गोविन्दाष्टकम्
Read गोविन्दाष्टकम् in its original Devanagari text, with source attribution, copy, download and print options.
॥ गोविन्दाष्टकं ॥
सत्यं ज्ञानमनंतं नित्यमनाकाशं परमाकाशम् । गोष्ठप्राङ्गणरिङ्खणलोलमनायासं परमायासम् । मायाकल्पितनानाकारमनाकारं भुवनाकारम् । क्ष्माया नाथमनाथं प्रणमत गोविंदं परमानंदम् ॥ १ ॥
मृत्स्नामत्सीहेति यशोदाताडनशैशव संत्रासम् । व्यदितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम् । लोकत्रयपुरमूलस्तंभं लोकालोकमनालोकम् । लोकेशं परमेशं प्रणमत गोविंदं परमानंदम् ॥ २ ॥
त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नम् । कैवल्यं नवनीताहारमनाहारं भुवनाहारम् । वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासम् । शैवं केवलशांतं प्रणमत गोविंदं परमानंदम् ॥ ३ ॥
गोपालं प्रभुलीलाविग्रहगोपालं कुलगोपालम् । गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम् । गोभिर्निगदित गोविंदस्फुतनामानं बहुनामानम् । गोपीगोचरपथिकं प्रणमत गोविंदं परमानंदम् ॥ ४ ॥
गोपीमंडलगोष्ठिभेदं भेदावस्थमभेदाभम् । शश्वद्गोखुरनिर्घूतोद्धतधूलीधूसरसौभाग्यम् । श्रद्धाभक्तिगृहीतानंदमचिन्त्यं चिंतितसद्भावम् । चिंतामणिमहिमानं प्रणमत गोविंदं परमानंदम् ॥ ५ ॥
स्नानव्याकुलयोशिद्वस्त्रमुपादायागमुपारूढम् । व्यदित्संतिरथ दिग्वस्त्रा ह्युपुदातुमुपाकर्षंतम् । निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरंतस्थम् । सत्तामात्रशरीरं प्रणमत गोविंदं परमानंदम् ॥ ६ ॥
कांतं कारणकारणमादिमनादिं कालमनाभासम् । कालिंदीगतकालियशिरसि मुहुर्नृत्यंतं नृत्यंतम् । कालं कालकलातीतं कलिताशेषं कलिदोषघ्नम् । कालत्रयगतिहेतुं प्रणमत गोविंदं परमानंदम् ॥ ७ ॥
वृंदावनभुवि वृंदारकगणवृन्दाराध्यं वंदेऽहम् । कुंदाभामलमंदस्मेरसुधानंदं सुहृदानंदम् । वंद्याशेषमहामुनिमानसवंद्यानंदपदद्वंद्वम् । वंद्याशेषगुणाब्धिं प्रणमत गोविंदं परमानंदम् ॥ ८ ॥
गोविंदाष्टकमेतदधीते गोविंदार्पितचेता यो । गोविंदाच्युत माधव विष्णो गोकुलनायक कृष्णेति । गोविंदाङ्घ्रिसरोजध्यानसुधाजलधौतसमस्ताघो । गोविंदं परमानंदामृतमंतःस्थं स तमभ्येति ॥
॥ इति श्रीमच्छङ्कराचार्यविरचितं श्रीगोविंदाष्टकं संपूर्णम्
गोविन्दाष्टकम् — sa.wikisource.org contributors
Adaptation: the source HTML was converted to plain text and line breaks were normalised. An Aarti extracted from a collection omits draft editing prompts and reference-number markers. Attribution and the same licence accompany text downloads. Original-script text is supplied; an English translation has not been added.
Texts can have traditional variants. Specialist text and language review remains pending. Statements within a hymn reflect its devotional tradition and are not a guarantee of health, wealth or another outcome.