Rooted in tradition. Guided by understanding.
Calculators and reading tools are free to use
Vishnu & Krishna

कृष्णसहस्रनामस्तोत्रम्

Read कृष्णसहस्रनामस्तोत्रम् in its original Devanagari text, with source attribution, copy, download and print options.

श्रीमद्रुक्मिमहीपालवंशरक्षामणिः स्थिरः ।

राजा हरिहरः क्षोणीं रक्षत्यम्बुधिमेखलाम् ।१॥

स राजा सर्वतन्त्रज्ञः समभ्यर्च्य वरप्रदम् ।

देवं श्रियः पतिं स्तुत्या समस्तौद्वेदवेदितम् ॥ २॥

तस्य हृष्टाशयः स्तुत्या विष्णुर्गोपाङ्गनावृतः ।

स पिञ्छश्यामलं रूपं पिञ्छोत्तंसमदर्शयत् ॥ ३॥

स पुनः स्वात्मविन्यस्तचित्तं हरिहरं नृपम् ।

अभिषिच्य कृपावर्षैरभाषत कृताञ्जलिम् ॥ ४॥

श्रीभगवानुवाच ।

मामवेहि महाभाग कृष्णं कृत्यविदां वर ।

पुरःस्थितोऽस्मि त्वद्भक्त्या पूर्णास्सन्तु मनोरथाः ॥ ५॥

संरक्षणाय शिष्टानां दुष्टानां शिक्षणाय च ।

समृद्ध्यै वेदधर्माणां ममांशत्वमिहोदितः ॥ ६॥

राजन्नामसहस्रेण रामो नाम्नां स्तुतस्त्वया ।

सोऽहं सर्वविदो तस्मात्प्रसन्नोऽस्मि विशेषतः ॥ ७॥

मामपि त्वं महाभाग मदीयचरितात्मना ।

सम्प्रीणय सहस्रेण नाम्नां सर्वार्थदायिनाम् ॥ ८॥

पराशरेण मुनिना व्यासेनाम्नायर्दशिना ।

स्वात्मभाजा शुकेनापि सूक्तेऽप्येतद्विभावितम् ॥ ९॥

तं हि त्वमनुसन्धेहि सहस्रशिरसं प्रभुम् ।

दत्तान्येषु मया न्यस्तं सहस्रं रक्षयिष्यति ॥ १०॥

इदं विश्वहितार्थाय रसनारङ्गगोचरम् ।

प्रकाशय त्वं मेदिन्यां परमागमसम्मतम् ॥ ११॥

इदं शठाय मूर्खाय नास्तिकाय विकीर्णिने ।

असूयिनेऽहितायापि न प्रकाश्यं कदाचन ॥ १२॥

विवेकिने विशुद्धाय वेदमार्गानुसारिणे ।

आस्तिकायात्मनिष्ठाय स्वात्मन्यनुसृतोदयम् ॥ १३॥

कृष्णनामसहस्रं वै कृतधीरेतदीरयेत् ।

विनियोगः

ॐ अस्य श्रीकृष्णसहस्रनामस्तोत्रमन्त्रस्य पराशरऋषिः,

अनुष्टुप् छन्दः, श्रीकृष्णः परमात्मा देवता,

श्रीकृष्णेति बीजम्, श्रीवल्लभेति शक्तिः, शार्ङ्गीति कीलकं,

श्रीकृष्णप्रीत्यर्थे जपे विनियोगः ॥

न्यासः

पराशराय ऋषये नमः इति शिरसि,

अनुष्टुप् छन्दसे नमः इति मुखे,

गोपालकृष्णदेवतायै नमः, इति हृदये,

श्रीकृष्णाय बीजाय नमः इति गुह्ये, श्रीवल्लभाय शक्त्यै नमः इति

पादयोः,

शार्ङ्गधराय कीलकाय नमः इति सर्वाङ्गे ॥

करन्यासः

श्रीकृष्ण इत्यारभ्य शूरवंशैकधीरित्यन्तानि अङ्गुष्ठाभ्यां नमः ।

शौरिरित्यारभ्य स्वभासोद्भासितव्रज इत्यन्तानि तर्जनीभ्यां नमः ।

कृतात्मविद्याविन्यासेत्यारभ्य प्रस्थानशकटारूढ इति मध्यमाभ्यां नमः,

वृन्दावनकृतालय इत्यारभ्य मधुराजनवीक्षित इत्यानामिकाभ्यां नमः,

रजकप्रतिघातक इत्यारभ्य द्वारकापुरकल्पन इति कनिष्ठिकाभ्यां नमः

द्वारकानिलय इत्यारभ्य पराशर इति करतलकरपृष्ठाभ्यां नमः,

एवं हृदयादिन्यासः ॥

ध्यानम् ।

केषाञ्चित्प्रेमपुंसां विगलितमनसां बाललीलाविलासं

केषां गोपाललीलाङ्कितरसिकतनुर्वेणुवाद्येन देवम् ।

केषां वामासमाजे जनितमनसिजो दैत्यदर्पापहैवं

ज्ञात्वा भिन्नाभिलाषं स जयति जगतामीश्वरस्तादृशोऽभूत् ॥ १॥

क्षीराब्धौ कृतसंस्तवस्सुरगणैर्ब्रह्मादिभिः पण्डितैः

प्रोद्भूतो वसुदेवसद्मनि मुदा चिक्रीड यो गोकुले ।

कंसध्वंसकृते जगाम मधुरां सारामसद्वारकां

गोपालोऽखिलगोपिकाजनसखः पायादपायात् स नः ॥ २॥

फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं

श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।

गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं

गोविन्दं कलवेणुवादनरतं दिव्याङ्गभूषं भजे ॥ ३॥

ॐ

कृष्णः श्रीवल्लभः शार्ङ्गी विष्वक्सेनः स्वसिद्धिदः ।

क्षीरोदधामा व्यूहेशः शेषशायी जगन्मयः ॥ १॥

भक्तिगम्यः त्रईमूर्तिर्भारार्तवसुधास्तुतः ।

देवदेवो दयासिन्धुर्देवदेवशिखामणिः ॥ २॥

सुखभावस्सुखाधारो मुकुन्दो मुदिताशयः ।

अविक्रियः क्रियामूर्तिरध्यात्मस्वस्वरूपवान् ॥ ३॥

शिष्टाभिलक्ष्यो भूतात्मा धर्मत्राणार्थचेष्टितः ।

अन्तर्यामी कलारूपः कालावयवसाक्षिकः ॥ ४॥

वसुधायासहरणो नारदप्रेरणोन्मुखः ।

प्रभूष्णुर्नारदोद्गीतो लोकरक्षापरायणः ॥ ५॥

रौहिणेयकृतानन्दो योगज्ञाननियोजकः ।

महागुहान्तर्निक्षिप्तः पुराणवपुरात्मवान् ॥ ६॥

शूरवंशैकधीश्शौरिः कंसशङ्काविषादकृत् ।

वसुदेवोल्लसच्छक्तिर्देवक्यष्टमगर्भगः ॥ ७॥

वसुदेवसुतः श्रीमान्देवकीनन्दनो हरिः ।

आश्चर्यबालः श्रीवत्सलक्ष्मवक्षाश्चतुर्भुजः ॥ ८॥

स्वभावोत्कृष्टसद्भावः कृष्णाष्टम्यन्तसम्भवः ।

प्राजापत्यर्क्षसम्भूतो निशीथसमयोदितः ॥ ९॥

शङ्खचक्रगदापद्मपाणिः पद्मनिभेक्षणः ।

किरीटी कौस्तुभोरस्कः स्फुरन्मकरकुण्डलः ॥ १०॥

पीतवासा घनश्यामः कुञ्चिताञ्चितकुन्तलः ।

सुव्यक्तव्यक्ताभरणः सूतिकागृहभूषणः ॥ ११॥

कारागारान्धकारघ्नः पितृप्राग्जन्मसूचकः ।

वसुदेवस्तुतः स्तोत्रं तापत्रयनिवारणः ॥ १२॥

निरवद्यः क्रियामूर्तिर्न्यायवाक्यनियोजकः ।

अदृष्टचेष्टः कूटस्थो धृतलौकिकविग्रहः ॥ १३॥

महर्षिमानसोल्लासो महीमङ्गलदायकः ।

सन्तोषितसुरव्रातः साधुचित्तप्रसादकः ॥ १४॥

जनकोपायनिर्देष्टा देवकीनयनोत्सवः ।

पितृपाणिपरिष्कारो मोहितागाररक्षकः ॥ १५॥

स्वशक्त्युद्धाटिताशेषकपाटः पितृवाहकः ।

शेषोरगफणाच्छत्रश्शेषोक्ताख्यासहस्रकः ॥ १६॥

यमुनापूरविध्वंसी स्वभासोद्भासितव्रजः ।

कृतात्मविद्याविन्यासो योगमायाग्रसम्भवः ॥ १७॥

दुर्गानिवेदितोद्भावो यशोदातल्पशायकः ।

नन्दगोपोत्सवस्फूर्तिर्व्रजानन्दकरोदयः ॥ १८॥

सुजातजातकर्म श्रीर्गोपीभद्रोक्तिनिर्वृतः ।

अलीकनिद्रोपगमः पूतनास्तनपीडनः ॥ १९॥

स्तन्यात्तपूतनाप्राणः पूतनाक्रोशकारकः ।

विन्यस्तरक्षागोधूलिर्यशोदाकरलालितः ॥ २०॥

नन्दाघ्रातशिरोमध्यः पूतनासुगतिप्रदः ।

बालः पर्यङ्कनिद्रालुर्मुखार्पितपदाङ्गुलिः ॥ २१॥

अञ्जनस्निग्धनयनः पर्यायाङ्कुरितस्मितः ।

लीलाक्षस्तरलालोकश्शकटासुरभञ्जनः ॥ २२॥

द्विजोदितस्वस्त्ययनो मन्त्रपूतजलाप्लुतः ।

यशोदोत्सङ्गपर्यङ्को यशोदामुखवीक्षकः ॥ २३॥

यशोदास्तन्यमुदितस्तृणावर्तादिदुस्सहः ।

तृणावर्तासुरध्वंसी मातृविस्मयकारकः ॥ २४॥

प्रशस्तनामकरणो जानुचङ्क्रमणोत्सुकः ।

व्यालम्बिचूलिकारत्नो घोषगोपप्रहर्षणः ॥ २५॥

स्वमुखप्रतिबिम्बार्थी ग्रीवाव्याघ्रनखोज्ज्वलः ।

पङ्कानुलेपरुचिरो मांसलोरूकटीतटः ॥ २६॥

घृष्टजानुकरद्वन्द्वः प्रतिबिम्बानुकारकृत् ।

अव्यक्तवर्णवाग्वृत्तिः स्मितलक्ष्यरदोद्ग्मः ॥ २७॥

धात्रीकरसमालम्बी प्रस्खलच्चित्रचङ्क्रमः ।

अनुरूपवयस्याढ्यश्चारुकौमारचापलः ॥ २८॥

वत्सपुच्छसमाकृष्टो वत्सपुच्छविकर्षणः ।

विस्मारितान्यव्यापारो गोपगोपीमुदावहः ॥ २९॥

अकालवत्सनिर्मोक्ता व्रजव्याक्रोशसुस्मितः ।

नवनीतमहाचोरो दारकाहारदायकः ॥ ३०॥

पीठोलूखलसोपानः क्षीरभाण्डविभेदनः ।

शिक्यभाण्डसमाकर्षी ध्वान्तागारप्रवेशकृत् ॥ ३१॥

भूषारत्नप्रकाशाढ्यो गोप्युपालम्भभर्त्सितः ।

परागधूसराकारो मृद्भक्षणकृतेक्षणः ॥ ३२॥

बालोक्तमृत्कथारम्भो मित्रान्तर्गूढविग्रहः ।

कृतसन्त्रासलोलाक्षो जननीप्रत्ययावहः ॥३३।

मातृदृश्यात्तवदनो वक्त्रलक्ष्यचराचरः ।

यशोदालालितस्वात्मा स्वयं स्वाच्छन्द्यमोहनः ॥ ३४॥

सवित्रीस्नेहसंश्लिष्टः सवित्रीस्तनलोलुपः ।

नवनीतार्थनाप्रह्वो नवनीतमहाशनः ॥ ३५॥

मृषाकोपप्रकम्पोष्ठो गोष्ठाङ्गणविलोकनः ।

दधिमन्थघटीभेत्ता किकिण्णीक्वणसूचितः ॥ ३६॥

हैयङ्गवीनरसिको मृषाश्रुश्चौर्यशङ्कितः ।

जननीश्रमविज्ञाता दामबन्धनियन्त्रितः ॥ ३७॥

दामाकल्पश्चलापाङ्गो गाढोलूखलबन्धनः ।

आकृष्टोलूखलोऽनन्तः कुबेरसुतशापवित् ॥। ३८॥

नारदोक्तिपरामर्शी यमलार्जुनभञ्जनः ।

धनदात्मजसङ्घुष्टो नन्दमोचितबन्धनः ॥ ३९॥

बालकोद्गीतनिरतो बाहुक्षेपोदितप्रियः ।

आत्मज्ञो मित्रवशगो गोपीगीतगुणोदयः ॥ ४०॥

प्रस्थानशकटारूढो वृन्दावनकृतालयः ।

गोवत्सपालनैकाग्रो नानाक्रीडापरिच्छदः ॥ ४१॥

क्षेपणीक्षेपणप्रीतो वेणुवाद्यविशारदः ।

वृषवत्सानुकरणो वृषध्वनिविडम्बनः ॥ ४२॥

नियुद्धलीलासंहृष्टः कूजानुकृतकोकिलः ।

उपात्तहंसगमनस्सर्वजन्तुरुतानुकृत् ॥ ४३॥

भृङ्गानुकारी दध्यन्नचोरो वत्सपुरस्सरः ।

बली बकासुरग्राही बकतालुप्रदाहकः ॥ ४४॥

भीतगोपार्भकाहूतो बकचञ्चुविदारणः ।

बकासुरारिर्गोपालो बालो बालाद्भुतावहः ॥ ४५॥

बलभद्रसमाश्लिष्टः कृतक्रीडानिलायनः ।

क्रीडासेतुनिधानज्ञः प्लवङ्गोत्प्लवनोऽद्भुतः ॥ ४६॥

कन्दुकक्रीडनो लुप्तनन्दादिभववेदनः ।

सुमनोऽलङ्कृतशिराः स्वादुस्निग्धान्नशिक्यभृत् ॥ ४७॥

गुञ्जाप्रालम्बनच्छन्नः पिञ्छैरलकवेषकृत् ।

वन्याशनप्रियः शृङ्गरवाकारितवत्सकः ॥ ४८॥

मनोज्ञपल्लवोत्तंसपुष्पस्वेच्छात्तषट्पदः ।

मञ्जुशिञ्जितमञ्जीरचरणः करकङ्कणः ॥ ४९॥

अन्योन्यशासनः कीडापटुः परमकैतवः ।

प्रतिध्वानप्रमुदितः शाखाचतुरचङ्क्रमः ॥ ५०॥

अघदानवसंहर्ता व्रजविघ्नविनाशनः ।

व्रजसञ्जीवनः श्रेयोनिधिर्दानवमुक्तिदः ॥ ५१॥

कालिन्दीपुलिनासीनस्सहभुक्तव्रजार्भकः ।

कक्षाजठरविन्यस्तवेणुर्वल्लवचेष्टितः ॥ ५२॥

भुजसन्ध्यन्तरन्यस्तशृङ्गवेत्रः शुचिस्मितः ।

वामपाणिस्थदध्यन्नकबलः कलभाषणः ॥ ५३॥

अङ्गुल्यन्तरविन्यस्तफलः परमपावनः ।

अदृश्यतर्णकान्वेषी वल्लवार्भकभीतिहा ॥ ५४॥

अदृष्टवत्सपव्रातो ब्रह्मविज्ञातवैभवः ।

गोवत्सवत्सपान्वेषी विराट्-पुरुषविग्रहः ॥ ५५॥

स्वसङ्कल्पानुरूपार्थो वत्सवत्सपरूपधृक् ।

यथावत्सक्रियारूपो यथास्थाननिवेशनः ॥ ५६॥

यथाव्रजार्भकाकारो गोगोपीस्तन्यपस्सुखी ।

चिराद्वलोहितो दान्तो ब्रह्मविज्ञातवैभवः ॥ ५७॥

विचित्रशक्तिर्व्यालीनसृष्टगोवत्सवत्सपः ।

ब्रह्मत्रपाकरो धातृस्तुतस्सर्वार्थसाधकः ॥ ५८॥

ब्रह्म ब्रह्ममयोऽव्यक्तस्तेजोरूपस्सुखात्मकः ।

निरुक्तं व्याकृतिर्व्यक्तो निरालम्बनभावनः ॥ ५९॥

प्रभविष्णुरतन्त्रीको देवपक्षार्थरूपधृक् ।

अकामस्सर्ववेदादिरणीयस्थूलरूपवान् ॥ ६०॥

व्यापी व्याप्यः कृपाकर्ता विचित्राचारसम्मतः ।

छन्दोमयः प्रधानात्मा मूर्तामूर्तिद्वयाकृतिः ॥ ६१॥

अनेकमूर्तिरक्रोधः परः प्रकृतिरक्रमः ।

सकलावरणोपेतस्सर्वदेवो महेश्वरः ॥ ६२॥

महाप्रभावनः पूर्ववत्सवत्सपदर्शकः ।

कृष्णयादवगोपालो गोपालोकनहर्षितः ॥ ६३॥

स्मितेक्षाहर्षितब्रह्मा भक्तवत्सलवाक्प्रियः ।

ब्रह्मानन्दाश्रुधौताङ्घ्रिर्लीलावैचित्र्यकोविदः ॥ ६४॥

बलभद्रैकहृदयो नामाकारितगोकुलः ।

गोपालबालको भव्यो रज्जुयज्ञोपवीतवान् ॥ ६५॥

वृक्षच्छायाहताशान्तिर्गोपोत्सङ्गोपबर्हणः ।

गोपसंवाहितपदो गोपव्यजनवीजितः ॥६६।

गोपगानसुखोन्निद्रः श्रीदामार्जितसौहृदः ।

सुनन्दसुहृदेकात्मा सुबलप्राणरञ्जनः ॥ ६७॥

तालीवनकृतक्रीडो बलपातितधेनुकः ।

गोपीसौभाग्यसम्भाव्यो गोधूलिच्छुरितालकः ॥ ६८॥

गोपीविरहसन्तप्तो गोपिकाकृतमज्जनः ।

प्रलम्बबाहुरुत्फुल्लपुण्डरीकावतंसकः ॥ ६९॥

विलासललितस्मेरगर्भलीलावलोकनः ।

स्रग्भूषणानुलेपाढ्यो जनन्युपहृतान्नभुक् ॥ ७०॥

वरशय्याशयो राधाप्रेमसल्लापनिर्वृतः ।

यमुनातटसञ्चारी विषार्तव्रजहर्षदः ॥ ७१॥

कालियक्रोधजनकः वृद्धाहिकुलवेष्टितः ।

कालियाहिफणारङ्गनटः कालियमर्दनः ॥ ७२॥

नागपत्नीस्तुतिप्रीतो नानावेषसमृद्धिकृत् ।

अविष्वक्तदृगात्मेशः खदृगात्मस्तुतिप्रियः ॥ ७३॥

सर्वेश्वरस्सर्वगुणः प्रसिद्धस्सर्वसात्वतः ।

अकुण्ठधामा चन्द्रार्कदृष्टिराकाशनिर्मलः ॥ ७४॥

अनिर्देश्यगतिर्नागवनितापतिभैक्षदः ।

स्वाङ्घ्रिमुद्राङ्कनागेन्द्रमूर्धा कालियसंस्तुतः ॥ ७५॥

अभयो विश्वतश्चक्षुः स्तुतोत्तमगुणः प्रभुः ।

अहमात्मा मरुत्प्राणः परमात्मा द्युशीर्षवान् ॥ ७६॥

नागोपायनहृष्टात्मा ह्रदोत्सारितकालियः ।

बलभद्रसुखालापो गोपालिङ्गननिर्वृतः ॥ ७७॥

दावाग्निभीतगोपालगोप्ता दावाग्निनाशनः ।

नयनाच्छादनक्रीडालम्पटो नृपचेष्टितः ॥ ७८॥

काकपक्षधरस्सौम्यो बलवाहककेलिमान् ।

बलघातितदुर्धर्षप्रलम्बो बलवत्सलः ॥ ७९॥

मुञ्जाटव्यग्निशमनः प्रावृट्कालविनोदवान् ।

शिलान्यस्तान्नभृद्दैत्यसंहर्ता शाद्वलासनः ॥ ८०॥

सदाप्तगोपिकोद्गीतः कर्णिकारावतंसकः ।

नटवेषधरः पद्ममालाङ्को गोपिकावृतः ॥ ८१॥

गोपीमनोहरापाङ्गो वेणुवादनतत्परः ।

विन्यस्तवदनाम्भोजश्चारुशब्दकृताननः ॥ ८२॥

बिम्बाधरार्पितोदारवेणुर्विश्वविमोहनः ।

व्रजसंवर्णितश्राव्यवेणुनादः श्रुतिप्रियः ॥ ८३॥

गोगोपगोपीजन्मेप्सुर्ब्रह्मेन्द्राद्यभिवन्दितः ।

गीतस्नुतिसरित्पूरो नादनर्तितबर्हिणः ॥ ८४॥

रागपल्लवितस्थाणुर्गीतानमितपादपः ।

विस्मारिततृणग्रासमृगो मृगविलोभितः ॥ ८५॥

व्याघ्रादिहिंस्रसहजवैरहर्ता सुगायनः ।

गाढोदीरितगोवृन्दप्रेमोत्कर्णिततर्णकः ॥ ८६॥

निष्पन्दयानब्रह्मादिवीक्षितो विश्ववन्दितः ।

शाखोत्कर्णशकुन्तौघश्छत्रायितबलाहकः ॥ ८७॥

प्रसन्नः परमानन्दश्चित्रायितचराचरः ।

गोपिकामदनो गोपीकुचकुङ्कुममुद्रितः ॥ ८८॥

गोपिकन्याजलक्रीडाहृष्टो गोप्यंशुकापृहत् ।

स्कन्धारोपितगोपस्रग्वासाः कुन्दनिभस्मितः ॥ ८९॥

गोपीनेत्रोत्पलशशी गोपिकायाचितांशुकः ।

गोपीनमस्क्रियादेष्टा गोप्येककरवन्दितः ॥ ९०॥

गोप्यञ्जलिविशेषार्थी गोपक्रीडाविलोभितः ।

शान्तवासस्फुरद्गोपीकृताञ्जलिरघापहः ॥ ९१॥

गोपीकेलिविलासार्थी गोपीसम्पूर्णकामदः ।

गोपस्त्रीईवस्त्रदो गोपीचित्तचोरः कुतूहली ॥ ९२॥

वृन्दावनप्रियो गोपबन्धुर्यज्वान्नयाचिता ।

यज्ञेशो यज्ञभावज्ञो यज्ञपत्न्यभिवाञ्छितः ॥ ९३॥

मुनिपत्नीवितीर्णान्नतृप्तो मुनिवधूप्रियः ।

द्विजपत्न्यभिभावज्ञो द्विजपत्नीवरप्रदः ॥ ९४॥

प्रतिरुद्धसतीमोक्षप्रदो द्विजविमोहिता ।

मुनिज्ञानप्रदो यज्वस्तुतो वासवयागवित् ॥ ९५॥

पितृप्रोक्तक्रियारूपशक्रयागनिवारणः ।

शक्राऽमर्षकरश्शक्रवृष्टिप्रशमनोन्मुखः ॥ ९६॥

गोवर्धनधरो गोपगोवृन्दत्राणतत्परः ।

गोवर्धनगिरिछत्रचण्डदण्डभुजार्गलः ॥ ९७॥

सप्ताहविधृताद्रीन्द्रो मेघवाहनगर्वहा ।

भुजाग्रोपरिविन्यस्तक्ष्माधरक्ष्माभृदच्युतः ॥ ९८॥

स्वस्थानस्थापितगिरिर्गोपीदध्यक्षतार्चितः ।

सुमनस्सुमनोवृष्टिहृष्टो वासववन्दितः ॥ ९९॥

कामधेनुपयःपूराभिषिक्तस्सुरभिस्तुतः ।

धराङ्घ्रिरोषधीरोमा धर्मगोप्ता मनोमयः ॥ १००॥

ज्ञानयज्ञप्रियश्शास्त्रनेत्रस्सर्वार्थसारथिः ।

ऐरावतकरानीतवियद्गङ्गाप्लुतो विभुः ॥ १०१॥

ब्रह्माभिषिक्तो गोगोप्ता सर्वलोकशुभङ्करः ।

सर्ववेदमयो मग्ननन्दान्वेषिपितृप्रियः ॥ १०२॥

वरुणोदीरितात्मेक्षाकौतुको वरुणार्चितः ।

वरुणानीतजनको गोपज्ञातात्मवैभवः ॥ १०३॥

स्वर्लोकालोकसंहृष्टगोपवर्गत्रिवर्गदः ।

ब्रह्महृद्गोपितो गोपद्रष्टा ब्रह्मपदप्रदः ॥ १०४॥

शरच्चन्द्रविहारोत्कः श्रीपतिर्वशको क्षमः ।

भयापहो भर्तृरुद्धगोपिकाध्यानगोचरः ॥ १०५॥

गोपिकानयनास्वाद्यो गोपीनर्मोक्तिनिर्वृतः ।

गोपिकामानहरणो गोपिकाशतयूथपः ॥ १०६॥

वैजयन्तीस्रगाकल्पो गोपिकामानवर्धनः ।

गोपकान्तासुनिर्देष्टा कान्तो मन्मथमन्मथः ॥ १०७॥

स्वात्मास्यदत्तताम्बूलः फलितोत्कृष्टयौवनः ।

वल्लवीस्तनसक्ताक्षो वल्लवीप्रेमचालितः ॥ १०८॥

गोपीचेलाञ्चलासीनो गोपीनेत्राब्जषट्पदः ।

रासक्रीडासमासक्तो गोपीमण्डलमण्डनः ॥ १०९॥

गोपीहेममणिश्रेणिमध्येन्द्रमणिरुज्ज्वलः ।

विद्याधरेन्दुशापघ्नश्शङ्खचूडशिरोहरः ॥ ११०॥

शङ्खचूडशिरोरत्नसम्प्रीणितबलोऽनघः ।

अरिष्टारिष्टकृद्दुष्टकेशिदैत्यनिषूदनः ॥ १११॥

सरसस्सस्मितमुखस्सुस्थिरो विरहाकुलः ।

सङ्कर्षणार्पितप्रीतिरक्रूरध्यानगोचरः ॥ ११२॥

अक्रूरसंस्तुतो गूढो गुणवृत्युपलक्षितः ।

प्रमाणगम्यस्तन्मात्राऽवयवी बुद्धितत्परः ॥ ११३॥

सर्वप्रमाणप्रमधीस्सर्वप्रत्ययसाधकः ।

पुरुषश्च प्रधानात्मा विपर्यासविलोचनः ॥ ११४॥

मधुराजनसंवीक्ष्यो रजकप्रतिघातकः ।

विचित्राम्बरसंवीतो मालाकारवरप्रदः ॥ ११५॥

कुब्जावक्रत्वनिर्मोक्ता कुब्जायौवनदायकः ।

कुब्जाङ्गरागसुरभिः कंसकोदण्डखण्डनः ॥ ११६॥

धीरः कुवलयापीडमर्दनः कंसभीतिकृत् ।

दन्तिदन्तायुधो रङ्गत्रासको मल्लयुद्धवित् ॥ ११७॥

चाणूरहन्ता कंसारिर्देवकीहर्षदायकः ।

वसुदेवपदानम्रः पितृबन्धविमोचनः ॥ ११८॥

उर्वीभयापहो भूप उग्रसेनाधिपत्यदः ।

आज्ञास्थितशचीनाथस्सुधर्मानयनक्षमः ॥ ११९॥

आद्यो द्विजातिसत्कर्ता शिष्टाचारप्रदर्शकः ।

सान्दीपनिकृताभ्यस्तविद्याभ्यासैकधीस्सुधीः ॥ १२०॥

गुर्वभीष्टक्रियादक्षः पश्चिमोदधिपूजितः ।

हतपञ्चजनप्राप्तपाञ्चजन्यो यमार्चितः ॥ १२१॥

धर्मराजजयानीतगुरुपुत्र उरुक्रमः ।

गुरुपुत्रप्रदश्शास्ता मधुराजसभासदः ॥ १२२॥

जामदग्न्यसमभ्यर्च्यो गोमन्तगिरिसञ्चरः ।

गोमन्तदावशमनो गरुडानीतभूषणः ॥ १२३॥

चक्राद्यायुधसंशोभी जरासन्धमदापहः ।

सृगालावनिपालघ्नस्सृगालात्मजराज्यदः ॥ १२४॥

विध्वस्तकालयवनो मुचुकुन्दवरप्रदः ।

आज्ञापितमहाम्भोधिर्द्वारकापुरकल्पनः ॥ १२५॥

द्वारकानिलयो रुक्मिमानहन्ता यदूद्वहः ।

रुचिरो रुक्मिणीजानिः प्रद्युम्नजनकः प्रभुः ॥ १२६॥

अपाकृतत्रिलोकार्तिरनिरुद्धपितामहः ।

अनिरुद्धपदान्वेषी चक्री गरुडवाहनः ॥ १२७॥

बाणासुरपुरीरोद्धा रक्षाज्वलनयन्त्रजित् ।

धूतप्रमथसंरम्भो जितमाहेश्वरज्वरः ॥ १२८॥

षट्चक्रशक्तिनिर्जेता भूतवेतालमोहकृत् ।

शम्भुत्रिशूलजिच्छम्भुजृम्भणश्शंम्भुसंस्तुतः ॥ १२९॥

इन्द्रियात्मेन्दुहृदयस्सर्वयोगेश्वरेश्वरः ।

हिरण्यगर्भहृदयो मोहावर्तनिवर्तनः ॥ १३०॥

आत्मज्ञाननिधिर्मेधा कोशस्तन्मात्ररूपवान् ।

इन्द्रोऽग्निवदनः कालनाभस्सर्वागमाध्वगः ॥ १३१॥

तुरीयसर्वधीसाक्षी द्वन्द्वारामात्मदूरगः ।

अज्ञातपारो वश्यश्रीरव्याकृतविहारवान् ॥ १३२॥

आत्मप्रदीपो विज्ञानमात्रात्मा श्रीनिकेतनः ।

बाणबाहुवनच्छेत्ता महेन्द्रप्रीतिवर्धनः ॥ १३३॥

अनिरुद्धनिरोधज्ञो जलेशाहृतगोकुलः ।

जलेशविजयी वीरस्सत्राजिद्रत्नयाचकः ॥ १३४॥

प्रसेनान्वेषणोद्युक्तो जाम्बवद्धृतरत्नदः ।

जितर्क्षराजतनयाहर्ता जाम्बवतीप्रियः ॥ १३५॥

सत्यभामाप्रियः कामश्शतधन्वशिरोहरः ।

कालिन्दीपतिरक्रूरबन्धुरक्रूररत्नदः ॥ १३६॥

कैकेयीरमणो भद्राभर्ता नाग्नजितीधवः ।

माद्रीमनोहरश्शैब्याप्राणबन्धुरुरुक्रमः ॥ १३७॥

सुशीलादयितो मित्रविन्दानेत्रमहोत्सवः ।

लक्ष्मणावल्लभो रुद्धप्राग्ज्योतिषमहापुरः ॥ १३८॥

सुरपाशावृतिच्छेदी मुरारिः क्रूरयुद्धवित्।

हयग्रीवशिरोहर्ता सर्वात्मा सर्वदर्शनः ॥ १३९॥

नरकासुरविच्छेत्ता नरकात्मजराज्यदः।

पृथ्वीस्तुतः प्रकाशात्मा हृद्यो यज्ञफलप्रदः ॥ १४०॥

गुणग्राही गुणद्रष्टा गूढस्वात्मा विभूतिमान् ।

कविर्जगदुपद्रष्टा परमाक्षरविग्रहः ॥ १४१॥

प्रपन्नपालनो माली महद् ब्रह्मविवर्धनः ।

वाच्यवाचकशक्त्यर्थस्सर्वव्याकृतसिद्धिदः ॥ १४२॥

स्वयम्प्रभुरनिर्वेद्यस्स्वप्रकाशश्चिरन्तनः ।

नादात्मा मन्त्रकोटीशो नानावादनिरोधकः ॥ १४३॥

कन्दर्पकोटिलावण्यः परार्थैकप्रयोजकः ।

अमरीकृतदेवौघः कन्यकाबन्धमोचनः ॥ १४४॥

षोडशस्त्रीसहस्रेशः कान्तः कान्तामनोभवः ।

क्रीडारत्नाचलाहर्ता वरुणच्छत्रशोभितः ॥ १४५॥

शक्राभिवन्दितश्शक्रजननीकुण्डलप्रदः ।

अदितिप्रस्तुतस्तोत्रो ब्राह्मणोद्घुष्टचेतनः ॥ १४६॥

पुराणस्संयमी जन्मालिप्तः षड्विंशकोऽर्थदः ।

यशस्यनीतिराद्यन्तरहितस्सत्कथाप्रियः ॥ १४७॥

ब्रह्मबोधः परानन्दः पारिजातापहारकः ।

पौण्ड्रकप्राणहरणः काशिराजनिषूदनः ॥ १४८॥

कृत्यागर्वप्रशमनो विचक्रवधदीक्षितः ।

कंसविध्वंसनस्साम्बजनको डिंम्भकार्दनः ॥ १४९॥

मुनिर्गोप्ता पितृवरप्रदस्सवनदीक्षितः ।

रथी सारथ्यनिर्देष्टा फाल्गुनः फाल्गुनिप्रियः ॥ १५०॥

सप्ताब्धिस्तम्भनोद्भातो हरिस्सप्ताब्धिभेदनः ।

आत्मप्रकाशः पूर्णश्रीरादिनारायणेक्षितः ॥ १५१॥

विप्रपुत्रप्रदश्चैव सर्वमातृसुतप्रदः ।

पार्थविस्मयकृत्पार्थप्रणवार्थप्रबोधनः ॥ १५२॥

कैलासयात्रासुमुखो बदर्याश्रमभूषणः ।

घण्टाकर्णक्रियामौढ्यात्तोषितो भक्तवत्सलः ॥ १५३॥

मुनिवृन्दादिभिर्ध्येयो घण्टाकर्णवरप्रदः ।

तपश्चर्यापरश्चीरवासाः पिङ्गजटाधरः ॥ १५४॥

प्रत्यक्षीकृतभूतेशश्शिवस्तोता शिवस्तुतः ।

कृष्णास्वयंवरालोककौतुकी सर्वसम्मतः ॥ १५५॥

बलसंरम्भशमनो बलदर्शितपाण्डवः ।

यतिवेषार्जुनाभीष्टदायी सर्वात्मगोचरः ॥ १५६॥

सुभद्राफाल्गुनोद्वाहकर्ता प्रीणितफाल्गुनः ।

खाण्डवप्रीणितार्चिष्मान्मयदानवमोचनः ॥ १५७॥

सुलभो राजसूयार्हयुधिष्ठिरनियोजकः ।

भीमार्दितजरासन्धो मागधात्मजराज्यदः ॥ १५८॥

राजबन्धननिर्मोक्ता राजसूयाग्रपूजनः ।

चैद्याद्यसहनो भीष्मस्तुतस्सात्वतपूर्वजः ॥ १५९॥

सर्वात्मार्थसमाहर्ता मन्दराचलधारकः ।

यज्ञावतारः प्रह्लादप्रतिज्ञाप्रतिपालकः ॥ १६०॥

बलियज्ञसभाध्वंसी दृप्तक्षत्रकुलान्तकः ।

दशग्रीवान्तको जेता रेवतीप्रेमवल्लभः ॥ १६१॥

सर्वावताराधिष्ठाता वेदबाह्यविमोहनः ।

कलिदोषनिराकर्ता दशनामा दृढव्रतः ॥ १६२॥

अमेयात्मा जगत्स्वामी वाग्मी चैद्यशिरोहरः ।

द्रौपदीरचितस्तोत्रः केशवः पुरुषोत्तमः ॥ १६३॥

नारायणो मधुपतिर्माधवो दोषवर्जितः ।

गोविन्दः पुण्डरीकाक्षो विष्णुश्च मधुसूदनः ॥ १६४॥

त्रिविक्रमस्त्रिलोकेशो वामनः श्रीधरः पुमान् ।

हृषीकेशो वासुदेवः पद्मनाभो महाह्रदः ॥ १६५॥

दामोदरश्चतुर्व्यूहः पाञ्चालीमानरक्षणः ।

साल्वघ्नस्समरश्लाघी दन्तवक्त्रनिबर्हणः ॥ १६६॥

दामोदरप्रियसखा पृथुकास्वादनप्रियः ॥

घृणी दामोदरः श्रीदो गोपीपुनरवेक्षकः ॥ १६७॥

गोपिकामुक्तिदो योगी दुर्वासस्तृप्तिकारकः ।

अविज्ञातव्रजाकीर्णपाण्डवालोकनो जयी ॥ १६८॥

पार्थसारथ्यनिरतः प्राज्ञः पाण्डवदूत्यकृत् ।

विदुरातिथ्यसन्तुष्टः कुन्तीसन्तोषदायकः ॥ १६९॥

सुयोधनतिरस्कर्ता दुर्योधनविकारवित् ।

विदुराभिष्ठुतो नित्यो वार्ष्णेयो मङ्गलात्मकः ॥ १७०॥

पञ्चविंशतितत्वेशश्चतुर्विंशतिदेहभाक् ।

सर्वानुग्राहकस्सर्वदाशार्हसततार्चितः ॥ १७१॥

अचिन्त्यो मधुरालापस्साधुदर्शी दुरासदः ।

मनुष्यधर्मानुगतः कौरवेन्द्रक्षयेक्षिता ॥ १७२॥

उपेन्द्रो दानवारातिरुरुगीतो महाद्युतिः ।

ब्रह्मण्यदेवः श्रुतिमान् गोब्राह्मणहिताशयः ॥ १७३॥

वरशीलश्शिवारम्भस्सुविज्ञानविमूर्तिमान् ।

स्वभावशुद्धस्सन्मित्रस्सुशरण्यस्सुलक्षणः ॥ १७४॥

धृतराष्ट्रगतोदृष्टिप्रदः कर्णविभेदनः ।

प्रतोदधृग्विश्वरूपविस्मारितधनञ्जयः ॥ १७५॥

सामगानप्रियो धर्मधेनुर्वर्णोत्तमोऽव्ययः ।

चतुर्युगक्रियाकर्ता विश्वरूपप्रदर्शकः ॥ १७६॥

ब्रह्मबोधपरित्रातपार्थो भीष्मार्थचक्रभृत् ।

अर्जुनायासविध्वंसी कालदंष्ट्राविभूषणः ॥ १७७॥

सुजातानन्तमहिमा स्वप्नव्यापारितार्जुनः ।

अकालसन्ध्याघटनश्चक्रान्तरितभास्करः ॥ १७८॥

दुष्टप्रमथनः पार्थप्रतिज्ञापरिपालकः ।

सिन्धुराजशिरःपातस्थानवक्ता विवेकदृक् ॥ १७९॥

सुभद्राशोकहरणो द्रोणोत्सेकादिविस्मितः ।

पार्थमन्युनिराकर्ता पाण्डवोत्सवदायकः ॥ १८०॥

अङ्गुष्ठाक्रान्तकौन्तेयरथश्शक्तोऽहिशीर्षजित् ।

कालकोपप्रशमनो भीमसेनजयप्रदः ॥ १८१॥

अश्वत्थामवधायासत्रातपाण्डुसुतः कृती ।

इषीकास्त्रप्रशमनो द्रौणिरक्षाविचारणः ।१८२॥

पार्थापहारितद्रौणिचूडामणिरभङ्गुरः ।

धृतराष्ट्रपरामृष्टभीमप्रतिकृतिस्मयः ॥ १८३॥

भीष्मबुद्धिप्रदश्शान्तश्शरच्चन्द्रनिभाननः ।

गदाग्रजन्मा पाञ्चालीप्रतिज्ञापरिपालकः ॥ १८४॥

गान्धारीकोपदृग्गुप्तधर्मसूनुरनामयः ।

प्रपन्नार्तिभयच्छेत्ता भीष्मशल्यव्यधावहः ॥ १८५॥

शान्तश्शान्तनवोदीर्णसर्वधर्मसमाहितः ।

स्मारितब्रह्मविद्यार्थप्रीतपार्थो महास्त्रवित् ॥ १८६॥

प्रसादपरमोदारो गाङ्गेयसुगतिप्रदः ।

विपक्षपक्षक्षयकृत्परीक्षित्प्राणरक्षणः ॥ १८७॥

जगद्गुरुर्धर्मसूनोर्वाजिमेधप्रवर्तकः ।

विहितार्थाप्तसत्कारो मासकात्परिवर्तदः ॥ १८८॥

उत्तङ्कहर्षदात्मीयदिव्यरूपप्रदर्शकः ।

जनकावगतस्वोक्तभारतस्सर्वभावनः ॥ १८९॥

असोढयादवोद्रेको विहिताप्तादिपूजनः ॥

समुद्रस्थापिताश्चर्यमुसलो वृष्णिवाहकः ॥ १९०॥

मुनिशापायुधः पद्मासनादित्रिदशार्थितः ।

वृष्टिप्रत्यवहारोत्कस्स्वधामगमनोत्सुकः ॥ १९१॥

प्रभासालोकनोद्युक्तो नानाविधनिमित्तकृत् ।

सर्वयादवसंसेव्यस्सर्वोत्कृष्टपरिच्छदः ॥ १९२॥

वेलाकाननसञ्चारी वेलानिलहृतश्रमः ।

कालात्मा यादवोऽनन्तस्स्तुतिसन्तुष्टमानसः ॥ १९३॥

द्विजालोकनसन्तुष्टः पुण्यतीर्थमहोत्सवः ।

सत्काराह्लादिताशेषभूसुरस्सुरवल्लभः ॥ १९४॥

पुण्यतीर्थाप्लुतः पुण्यः पुण्यदस्तीर्थपावनः ।

विप्रसात्कृतगोकोटिश्शतकोटिसुवर्णदः ॥ १९५॥

स्वमायामोहिताऽशेषवृष्णिवीरो विशेषवित् ।

जलजायुधनिर्देष्टा स्वात्मावेशितयादवः ॥ १९६॥

देवताभीष्टवरदः कृतकृत्यः प्रसन्नधीः ।

स्थिरशेषायुतबलस्सहस्रफणिवीक्षणः ॥ १९७॥

ब्रह्मवृक्षवरच्छायासीनः पद्मासनस्थितः ।

प्रत्यगात्मा स्वभावार्थः प्रणिधानपरायणः ॥ १९८॥

व्याधेषुविद्धपूज्याङ्घ्रिर्निषादभयमोचनः ।

पुलिन्दस्तुतिसन्तुष्टः पुलिन्दसुगतिप्रदः ॥ १९९॥

दारुकार्पितपार्थादिकरणीयोक्तिरीशिता ।

दिव्यदुन्दुभिसंयुक्तः पुष्पवृष्टिप्रपूजितः ॥ २००॥

पुराणः परमेशानः पूर्णभूमा परिष्टुतः ।

पतिराद्यः परं ब्रह्म परमात्मा परात्परः ॥ २०१॥

श्रीपरमात्मा परात्परः ओं नमः इति-

फलश्रुतिः

इदं सहस्रं कृष्णस्य नाम्नां सर्वार्थदायकम् ।

अनन्तरूपी भगवान् व्याख्यातादौ स्वयम्भुवे ॥ २०२॥

तेन प्रोक्तं वसिष्ठाय ततो लब्ध्वा पराशरः ।

व्यासाय तेन सम्प्रोक्तं शुको व्यासादवाप्तवान् ॥ २०३॥

तच्छिष्यैर्बहुभिर्भूमौ ख्यापितं द्वापरे युगे ।

कृष्णाज्ञया हरिहरः कलौ प्रख्यापयद्विभुः ॥ २०४॥

इदं पठति भक्त्या यः शृणोति च समाहितः ।

स्वसिद्ध्यै प्रार्थयन्त्येनं तीर्थक्षेत्रादिदेवताः ॥ २०५॥

प्रायश्चित्तान्यशेषाणि नालं यानि व्यपोहितुम् ।

तानि पापानि नश्यन्ति सकृदस्य प्रशंसनात् ॥ २०६॥

ऋणत्रयविमुक्तस्य श्रौतस्मार्तानुवर्तिनः ।

ऋषेस्त्रिमूर्तिरूपस्य फलं विन्देदिदं पठन् ॥ २०७॥

इदं नामसहस्रं यः पठत्येतच्छृणोति च ।

शिवलिङ्गसहस्रस्य स प्रतिष्ठाफलं लभेत् ॥ २०८॥

इदं किरीटी सञ्जप्य जयी पाशुपतास्त्रभाक् ।

कृष्णस्य प्राणभूतस्सन् कृष्णं सारथिमाप्तवान् ॥ २०९॥

द्रौपद्या दमयन्त्या च सावित्र्या च सुशीलया ।

दुरितानि जितान्येतज्जपादाप्तं च वाञ्छितम् ॥ २१०॥

किमिदं बहुना शंसन्मानवो मोदनिर्भरः ।

ब्रह्मानन्दमवाप्यान्ते कृष्णसायूज्यमाप्नुयात् ॥ २११॥

॥ कृष्णसहस्रनामस्तोत्रं सम्पूर्णम् ॥

Source, licence & text notes

कृष्णसहस्रनामस्तोत्रम् — sa.wikisource.org contributors

Adaptation: the source HTML was converted to plain text and line breaks were normalised. An Aarti extracted from a collection omits draft editing prompts and reference-number markers. Attribution and the same licence accompany text downloads. Original-script text is supplied; an English translation has not been added.

Texts can have traditional variants. Specialist text and language review remains pending. Statements within a hymn reflect its devotional tradition and are not a guarantee of health, wealth or another outcome.

Back to the collection

Ancient wisdom. A more thoughtful everyday.

Begin with your Kundali