Rooted in tradition. Guided by understanding.
Calculators and reading tools are free to use
Vishnu & Krishna

कृष्णसहस्रनामस्तोत्रम् (सात्वततन्त्रम्)

Read कृष्णसहस्रनामस्तोत्रम् (सात्वततन्त्रम्) in its original Devanagari text, with source attribution, copy, download and print options.

श्रीनारद उवाच ।

कथितं मे त्वया देव हरिनामानुकीर्तनम् ।

पापापहं महासौख्यं भगवद्भक्तिकारणम् ॥ १॥

तत्राहं यानि नामानि कीर्तयामि सुरोत्तम ।

तान्यहं ज्ञातुमिच्छामि साकल्येन कुतूहलात् ॥ २॥

श्रीशिव उवाच ।

भूम्यम्बुतेजसां ये वै परमाणूनपि द्विज ।

शक्यन्ते गणितुं भूयो जन्मभिर्न हरेर्गुणान् ॥ ३॥

तथापि मुख्यं वक्ष्यामि श्रीविष्णोः परमाद्भुतम् ।

नाम्नां सहस्रं पार्वत्यै यदिहोक्तं कृपालुना ॥ ४॥

समाधिनिष्ठं मां दृष्ट्वा पार्वती वरवर्णिनी ।

अपृच्छत्परमं देवं भगवन्तं जगद्गुरुम् ॥ ५॥

तदा तस्यै मया प्रोक्तो मत्परो जगदीश्वरः ।

नाम्नां सहस्रं च तथा गुणकर्मानुसारतः ॥ ६॥

तदहं तेऽभिवक्ष्यामि महाभागवतो भवान् ।

यस्यैकस्मरणेनैव पुमान् सिद्धिमवाप्नुयात् ॥ ७॥

उद्यन्नवीनजलदाभमकुण्ठधिष्ण्यं विद्योतितानलमनोहरपीतवासम् ।

भास्वन्मयूखमुकुटाङ्गदहारयुक्तं काञ्चीकलापवलयाङ्गुलिभिर्विभातम् ॥ ८॥

ब्रह्मादिदेवगणवन्दितपादपद्यं श्रीसेवितं सकलसुन्दरसंनिवेशम् ।

गोगोपवनितामुनिवृन्दजुष्टं कृष्णं पुराणपुरुषं मनसा स्मरामि ॥ ९॥

ओं नमो वासुदेवाय कृष्णाय परमात्मने ।

प्रणतक्लेशसंहर्त्रे परमानन्ददायिने ॥ १०॥

ओं श्रीकृष्णः श्रीपतिः श्रीमान् श्रीधरः श्रीसुखाश्रयः ।

श्रीदाता श्रीकरः श्रीशः श्रीसेव्यः श्रीविभावनः ॥ ११॥

परमात्मा परं ब्रह्म परेशः परमेश्वरः ।

परानन्दः परं धाम परमानन्ददायकः ॥ १२॥

निरालम्बो निर्विकारो निर्लेपो निरवग्रहः ।

नित्यानन्दो नित्यमुक्तो निरीहो निस्पृहप्रियः ॥ १३॥

प्रियंवदः प्रियकरः प्रियदः प्रियसञ्जनः ।

प्रियानुगः प्रियालम्बी प्रियकीर्तिः प्रियात्प्रियः ॥ १४॥

महात्यागी महाभोगी महायोगी महातपाः ।

महात्मा महतां श्रेष्ठो महालोकपतिर्महान् ॥ १५॥

सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धसाधनः ।

सिद्धेशः सिद्धमार्गाग्रः सिद्धलोकैकपालकः ॥ १६॥

इष्टो विशिष्टः शिष्टेष्टो महिष्ठो जिष्णुरुत्तमः ।

ज्येष्ठः श्रेष्ठश्च सर्वेष्टो विष्णुर्भ्राजिष्णुरव्ययः ॥ १७॥

विभुः शम्भुः प्रभुर्भूमा स्वभूः स्वानन्दमूर्तिमान् ।

प्रीतिमान् प्रीतिदाता च प्रीतिदः प्रीतिवर्धनः ॥ १८॥

योगेश्वरो योगगम्यो योगीशो योगपारगः ।

योगदाता योगपतिर्योगसिद्धिविधायकः ॥ १९॥

सत्यव्रतः सत्यपरः त्रिसत्यः सत्यकारणः ।

सत्याश्रयः सत्यहरः सत्पालिः सत्यवर्धनः ॥ २०॥

सर्वानन्दः सर्वहरः सर्वगः सर्ववश्यकृत् ।

सर्वपाता सर्वसुखः सर्वश्रुतिगणार्णवः ॥ २१॥

जनार्दनो जगन्नाथो जगत्त्राता जगत्पिता ।

जगत्कर्ता जगद्धर्ता जगदानन्दमूर्तिमान् ॥ २२॥

धरापतिर्लोकपतिः स्वर्पतिर्जगताम्पतिः ।

विद्यापतिर्वित्तपतिः सत्पतिः कमलापतिः ॥ २३॥

चतुरात्मा चतुर्बाहुश्चतुर्वर्गफलप्रदः ।

चतुर्व्यूहश्चतुर्धामा चतुर्युगविधायकः ॥ २४॥

आदिदेवो देवदेवो देवेशो देवधारणः ।

देवकृद्देवभृद्देवो देवेडितपदाम्बुजः ॥ २५॥

विश्वेश्वरो विश्वरूपी विश्वात्मा विश्वतोमुखः ।

विश्वसूर्विश्वफलदो विश्वगो विश्वनायकः ॥ २६॥

भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ।

भूतिदो भूतिविस्तारो विभूतिर्भूतिपालकः ॥ २७॥

नारायणो नारशायी नारसूर्नारजीवनः ।

नारैकफलदो नारमुक्तिदो नारनायकः ॥ २८॥

सहस्ररूपः साहस्रनामा साहस्रविग्रहः ।

सहस्रशीर्षा साहस्रपादाक्षिभुजशीर्षवान् ॥ २९॥

पद्मनाभः पद्मगर्भः पद्मी पद्मनिभेक्षणः ।

पद्मशायी पद्ममाली पद्माङ्कितपदद्वयः ॥ ३०॥

वीर्यवान् स्थैर्यवान् वाग्मी शौर्यवान् धैर्यवान् क्षमी ।

धीमान् धर्मपरो भोगी भगवान् भयनाशनः ॥ ३१॥

जयन्तो विजयो जेता जयदो जयवर्धनः ।

अमानी मानदो मान्यो महिमावान्महाबलः ॥ ३२॥

सन्तुष्टस्तोषदो दाता दमनो दीनवत्सलः ।

ज्ञानी यशस्वान् धृतिमान् सह ओजोबलाश्रयः ॥ ३३॥

हयग्रीवो महातेजा महार्णवविनोदकृत् ।

मधुकैटभविध्वंसी वेदकृद्वेदपालकः ॥ ३४॥

सनत्कुमारः सनकः सनन्दश्च सनातनः ।

अखण्डब्रह्मव्रतवानात्मा योगविवेचकः ॥ ३५॥

श्रीनारदो देवऋषिः कर्माकर्मप्रवर्तकः ।

सात्वतागमकृल्लोकहिताहितप्रसूचकः ॥ ३६॥

आदिकालो यज्ञतत्त्वं धातृनासापुटोद्भवः ।

दन्ताग्रन्यस्तभूगोलो हिरण्याक्षबलान्तकः ॥ ३७॥

पृथ्वीपतिः शीघ्रवेगो रोमान्तर्गतसागरः ।

श्वासावधूतहेमाद्रिः प्रजापतिपतिस्तुतः ॥ ३८॥

अनन्तो धरणीभर्ता पातालतलवासकृत् ।

कामाग्निजवनो नागराजराजो महाद्युतिः ॥ ३९॥

महाकूर्मो विश्वकायः शेषभुक्सर्वपालकः ।

लोकपितृगणाधीशः पितृस्तुतमहापदः ॥ ४०॥

कृपामयः स्वयं व्यक्तिर्ध्रुवप्रीतिविवर्धनः ।

ध्रुवस्तुतपदो विष्णुलोकदो लोकपूजितः ॥ ४१॥

शुक्लः कर्दमसन्तप्तस्तपस्तोषितमानसः ।

मनोऽभीष्टप्रदो हर्षबिन्द्वञ्चितसरोवरः ॥ ४२॥

यज्ञः सुरगणाधीशो दैत्यदानवघातकः ।

मनुत्राता लोकपालो लोकपालकजन्मकृत् ॥ ४३॥

कपिलाख्यः साङ्ख्यपाता कर्दमाङ्गसमुद्भवः ।

सर्वसिद्धगणाधीशो देवहूतिगतिप्रदः ॥ ४४॥

दत्तोऽत्रितनयो योगी योगमार्गप्रदर्शकः ।

अनसूयानन्दकरः सर्वयोगिजनस्तुतः ॥ ४५॥

नारायणो नरऋषिर्धर्मपुत्रो महामनाः ।

महेशशूलदमनो महेशैकवरप्रदः ॥ ४६॥

आकल्पान्ततपोधीरो मन्मथादिमदापहः ।

ऊर्वशीसृग्जितानङ्गो मार्कण्डेयप्रियप्रदः ॥ ४७॥

ऋषभो नाभिसुखदो मेरुदेवीप्रियात्मजः ।

योगिराजद्विजस्रष्टा योगचर्याप्रदर्शकः ॥ ४८॥

अष्टबाहुर्दक्षयज्ञपावनोऽखिलसत्कृतः ।

दक्षेशद्वेषशमनो दक्षज्ञानप्रदायकः ॥ ४९॥

प्रियव्रतकुलोत्पन्नो गयनामा महायशाः ।

उदारकर्मा बहुविन्महागुणगणार्णवः ॥ ५०॥

हंसरूपी तत्त्ववक्ता गुणागुणविवेचकः ।

धातृलज्जाप्रशमनो ब्रह्मचारिजनप्रियः ॥ ५१॥

वैश्यः पृथुः पृथ्विदोग्धा सर्वजीवनदोहकृत् ।

आदिराजो जनावासकारको भूसमीकरः ॥ ५२॥

प्रचेतोऽभिष्टुतपदः शान्तमूर्तिः सुदर्शनः ।

दिवारात्रिगणाधीशः केतुमानजनाश्रयः ॥ ५३॥

श्रीकामदेवः कमलाकामकेलिविनोदकृत् ।

स्वपादरतिदोऽभीष्टसुखदो दुःखनाशनः ॥ ५४॥

विभुर्धर्मभृतां श्रेष्ठो वेदशीर्षो द्विजात्मजः ।

अष्टाशीतिसहस्राणां मुनीनामुपदेशदः ॥ ५५॥

सत्यसेनो यक्षरक्षोदहनो दीनपालकः ।

इन्द्रमित्रः सुरारिघ्नः सूनृताधर्मनन्दनः ॥ ५६॥

हरिर्गजवरत्राता ग्राहपाशविनाशकः ।

त्रिकूटाद्रिवनश्लाघी सर्वलोकहितैषणः ॥ ५७॥

वैकुण्ठशुभ्रासुखदो विकुण्ठासुन्दरीसुतः ।

रमाप्रियकरः श्रीमान्निजलोकप्रदर्शकः ॥ ५८॥

विप्रशापपरीखिन्ननिर्जरार्तिनिवारणः ।

दुग्धाब्धिमथनो विप्रो विराजतनयोऽजितः ॥ ५९॥

मन्दाराद्रिधरः कूर्मो देवदानवशर्मकृत् ।

जम्बूद्वीपसमः स्रष्टा पीयूषोत्पत्तिकारणम् ॥ ६०॥

धन्वन्तरी रुक्।ग्शमनोऽमृतधुक्रुक्प्रशान्तकः ।

आयुर्वेदकरो वैद्यराजो विद्याप्रदायकः ॥ ६१॥

देवाभयकरो दैत्यमोहिनी कामरूपिणी ।

गीर्वाणामृतपो दुष्टदैत्यदानववञ्चकः ॥ ६२॥

महामत्स्यो महाकायः शल्कान्तर्गतसागरः ।

वेदारिदैत्यदमनो व्रीहिबीजसुरक्षकः ॥ ६३॥

पुच्छाघातभ्रमत्सिन्धुः सत्यव्रतप्रियप्रदः ।

भक्तसत्यव्रतत्राता योगत्रयप्रदर्शकः ॥ ६४॥

नरसिंहो लोकजिह्वः शङ्कुकर्णो नखायुधः ।

सटावधूतजलदो दन्तद्युतिजितप्रभः ॥ ६५॥

हिरण्यकशिपुध्वंसी बहुदानवदर्पहा ।

प्रह्लादस्तुतपादाब्जो भक्तसंसारतापहा ॥ ६६॥

ब्रह्मेन्द्ररुद्रभीतिघ्नो देवकार्यप्रसाधकः ।

ज्वलज्ज्वलनसङ्काशः सर्वभीतिविनाशकः ॥ ६७॥

महाकलुषविध्वंसी सर्वकामवरप्रदः ।

कालविक्रमसंहर्ता ग्रहपीडाविनाशकः ॥ ६८॥

सर्वव्याधिप्रशमनः प्रचण्डरिपुदण्डकृत् ।

उग्रभैरवसन्त्रस्तहरार्तिविनिवारकः ॥ ६९॥

ब्रह्मचर्मावृतशिराः शिवशीर्षैकनूपुरः ।

द्वादशादित्यशीर्षैकमणिर्दिक्पालभूषणः ॥ ७०॥

वामनोऽदितिभीतिघ्नो द्विजातिगणमण्डनः ।

त्रिपदव्याजयाञ्चाप्तबलित्रैलोक्यसम्पदः ॥ ७१॥

पन्नखक्षतब्रह्माण्डकटाहोऽमितविक्रमः । pannagakShata?

स्वर्धुनीतीर्थजननो ब्रह्मपूज्यो भयापहः ॥ ७२॥

स्वाङ्घ्रिवारिहताघौघो विश्वरूपैकदर्शनः ।

बलिप्रियकरो भक्तस्वर्गदोग्धा गदाधरः ॥ ७३॥

जामदग्न्यो महावीर्यः परशुभृत्कार्तवीर्यजित् ।

सहस्रार्जुनसंहर्ता सर्वक्षत्रकुलान्तकः ॥ ७४॥

निःक्षत्रपृथ्वीकरणो वीरजिद्विप्रराज्यदः ।

द्रोणास्त्रवेदप्रवदो महेशगुरुकीर्तिदः ॥ ७५॥

सूर्यवंशाब्जतरणिः श्रीमद्दशरथात्मजः ।

श्रीरामो रामचन्द्रश्च रामभद्रोऽमितप्रभः ॥ ७६॥

नीलवर्णप्रतीकाशः कौसल्याप्राणजीवनः ।

पद्मनेत्रः पद्मवक्त्रः पद्माङ्कितपदाम्बुजः ॥ ७७॥

प्रलम्बबाहुश्चार्वङ्गो रत्नाभरणभूषितः ।

दिव्याम्बरो दिव्यधनुर्दिष्टदिव्यास्त्रपारगः ॥ ७८॥

निस्त्रिंशपाणिर्वीरेशोऽपरिमेयपराक्रमः ।

विश्वामित्रगुरुर्धन्वी धनुर्वेदविदुत्तमः ॥ ७९॥

ऋजुमार्गनिमित्तेषु सङ्घताडितताडकः ।

सुबाहुर्बाहुवीर्याढ्यबहुराक्षसघातकः ॥ ८०॥

प्राप्तचण्डीशदोर्दण्डचण्डकोदण्डखण्डनः ।

जनकानन्दजनको जानकीप्रियनायकः ॥ ८१॥

अरातिकुलदर्पघ्नो ध्वस्तभार्गवविक्रमः ।

पितृवाक्त्यक्तराज्यश्रीवनवासकृतोत्सवः ॥ ८२॥

विराधराधदमनश्चित्रकूटाद्रिमन्दिरः ।

द्विजशापसमुच्छन्नदण्डकारण्यकर्मकृत् ॥ ८३॥

चतुर्दशसहस्रोग्रराक्षसघ्नः खरान्तकः ।

त्रिशिरःप्राणशमनो दुष्टदूषणदूषणः ॥ ८४॥

छद्ममारीचमथनो जानकीविरहार्तिहृत् ।

जटायुषः क्रियाकारी कबन्धवधकोविदः ॥ ८५॥

ऋष्यमूकगुहावासी कपिपञ्चमसख्यकृत् ।

वामपादाग्रनिक्षिप्तदुन्दुभ्यस्थिबृहद्गिरिः ॥ ८६॥

सकण्टकारदुर्भेदसप्ततालप्रभेदकः ।

किष्किन्धाधिपवालिघ्नो मित्रसुग्रीवराज्यदः ॥ ८७॥

आञ्जनेयस्वलाङ्गूलदग्धलङ्कामहोदयः ।

सीताविरहविस्पष्टरोषक्षोभितसागरः ॥ ८८॥

गिरिकूटसमुत्क्षेपसमुद्राद्भुतसेतुकृत् ।

पादप्रहारसन्त्रस्तविभीषणभयापहः ॥ ८९॥

अङ्गदोक्तिपरिक्लिष्टघोररावणसैन्यजित् ।

निकुम्भकुम्भधूम्राक्षकुम्भकर्णादिवीरहा ॥ ९०॥

कैलाससहनोन्मत्तदशाननशिरोहरः ।

अग्निसंस्पर्शसंशुद्धसीतासम्वरणोत्सुकः ॥ ९१॥

कपिराक्षसराजाङ्गप्राप्तराज्यनिजाश्रयः ।

अयोध्याधिपतिः सर्वराजन्यगणशेखरः ॥ ९२॥

अचिन्त्यकर्मा नृपतिः प्राप्तसिंहासनोदयः ।

दुष्टदुर्बुद्धिदलनो दीनहीनैकपालकः ॥ ९३॥

सर्वसम्पत्तिजननस्तिर्यङ्न्यायविवेचकः ।

शूद्रघोरतपःप्लुष्टद्विजपुत्रैकजीवनः ॥ ९४॥

दुष्टवाक्क्लिष्टहृदयः सीतानिर्वासकारकः ।

तुरङ्गमेधक्रतुयाट्श्रीमत्कुशलवात्मजः ॥ ९५॥

सत्यार्थत्यक्तसौमित्रिः सून्नीतजनसङ्ग्रहः ।

सत्कर्णपूरसत्कीर्तिः कीर्त्यालोकाघनाशनः ॥ ९६॥

भरतो ज्येष्ठपादाब्जरतित्यक्तनृपासनः ।

सर्वसद्गुणसम्पन्नः कोटिगन्धर्वनाशकः ॥ ९७॥

लक्ष्मणो ज्येष्ठनिरतो देववैरिगणान्तकः ।

इन्द्रजित्प्राणशमनो भ्रातृमान् त्यक्तविग्रहः ॥ ९८॥

शत्रुघ्नोऽमित्रशमनो लवणान्तककारकः ।

आर्यभ्रातृजनश्लाघ्यः सतां श्लाघ्यगुणाकरः ॥ ९९॥

वटपत्त्रपुटस्थायी श्रीमुकुन्दोऽखिलाश्रयः ।

तनूदरार्पितजगन्मृकण्डतनयः खगः ॥ १००॥

आद्यो देवगणाग्रण्यो मितस्तुतिनतिप्रियः ।

वृत्रघोरतनुत्रस्तदेवसन्मन्त्रसाधकः ॥ १०१॥

ब्रह्मण्यो ब्राह्मणश्लाघी ब्रह्मण्यजनवत्सलः ।

गोष्पदाप्सुगलद्गात्रवालखिल्यजनाश्रयः ॥ १०२॥

दौस्वस्तिर्यज्वनां श्रेष्ठो नृपविस्मयकारकः ।

तुरङ्गमेधबहुकृद्वदान्यगणशेखरः ॥ १०३॥

वासवीतनयो व्यासो वेदशाखानिरूपकः ।

पुराणभारताचार्यः कलिलोकहितैषणः ॥ १०४॥

रोहिणीहृदयानन्दो बलभद्रो बलाश्रयः ।

सङ्कर्षणः सीरपाणिः मुसलास्त्रोऽमलद्युतिः ॥ १०५॥

शङ्खकुन्देन्दुश्वेताङ्गस्तालभिद्धेनुकान्तकः ।

मुष्टिकारिष्टहननो लाङ्गलाकृष्टयामुनः ॥ १०६॥

प्रलम्बप्राणहा रुक्मीमथनो द्विविदान्तकः ।

रेवतीप्रीतिदो रामारमणो बल्वलान्तकः ॥ १०७॥

हस्तिनापुरसङ्कर्षी कौरवार्चितसत्पदः ।

ब्रह्मादिस्तुतपादाब्जो देवयादवपालकः ॥ १०८॥

मायापतिर्महामायो महामायानिदेशकृत् ।

यदुवंशाब्धिपूर्णेन्दुर्बलदेवप्रियानुजः ॥ १०९॥

नराकृतिः परं ब्रह्म परिपूर्णः परोदयः ।

सर्वज्ञानादिसम्पूर्णः पूर्णानन्दः पुरातनः ॥ ११०॥

पीताम्बरः पीतनिद्रः पीतवेश्ममहातपाः ।

महोरस्को महाबाहुर्महार्हमणिकुण्डलः ॥ १११॥

लसद्गण्डस्थलीहैममौलिमालाविभूषितः ।

सुचारुकर्णः सुभ्राजन्मकराकृतिकुण्डलः ॥ ११२॥

नीलकुञ्चितसुस्निग्धकुन्तलः कौमुदीमुखः ।

सुनासः कुन्ददशनो लसत्कोकनदाधरः ॥ ११३॥

सुमन्दहासो रुचिरभ्रूमण्डलविलोकनः ।

कम्बुकण्ठो बृहद्ब्रह्मा वलयाङ्गदभूषणः ॥ ११४॥

कौस्तुभी वनमाली च शङ्खचक्रगदाब्जभृत् ।

श्रीवत्सलक्ष्म्या लक्ष्याङ्गः सर्वलक्षणलक्षणः ॥ ११५॥

दलोदरो निम्ननाभिर्निरवद्यो निराश्रयः ।

नितम्बबिम्बव्यालम्बिकिङ्किणीकाञ्चिमण्डितः ॥ ११६॥

समजङ्घाजानुयुग्मः सुचारुरुचिराजितः ।

ध्वजवज्राङ्कुशाम्भोजशराङ्कितपदाम्बुजः ॥ ११७॥

भक्तभ्रमरसङ्घातपीतपादाम्बुजासवः ।

नखचन्द्रमणिज्योत्स्नाप्रकाशितमहामनाः ॥ ११८॥

पादाम्बुजयुगन्यस्तलसन्मञ्जीरराजितः ।

स्वभक्तहृदयाकाशलसत्पङ्कजविस्तरः ॥ ११९॥

सर्वप्राणिजनानन्दो वसुदेवनुतिप्रियः ।

देवकीनन्दनो लोकनन्दिकृद्भक्तभीतिभित् ॥ १२०॥

शेषानुगः शेषशायी यशोदानतिमानदः ।

नन्दानन्दकरो गोपगोपीगोकुलबान्धवः ॥ १२१॥

सर्वव्रजजनानन्दी भक्तवल्लभववल्लभः ।

वल्यव्यङ्गलसद्गात्रो बल्लवीबाहुमध्यगः ॥ १२२॥

पीतपूतनिकास्तन्यः पूतनाप्राणशोषणः ।

पूतनोरस्थलस्थायी पूतनामोक्षदायकः ॥ १२३॥

समागतजनानन्दी शकटोच्चाटकारकः ।

प्राप्तविप्राशिषोऽधीशो लघिमादिगुणाश्रयः ॥ १२४॥

तृणावर्तगलग्राही तृणावर्तनिषूदनः ।

जनन्यानन्दजनको जनन्या मुखविश्वदृक् ॥ १२५॥

बालक्रीडारतो बालभाषालीलादिनिर्वृतः ।

गोपगोपीप्रियकरो गीतनृत्यानुकारकः ॥ १२६॥

नवनीतविलिप्ताङ्गो नवनीतलवप्रियः ।

नवनीतलवाहारी नवनीतानुतस्करः ॥ १२७॥

दामोदरोऽर्जुनोन्मूलो गोपैकमतिकारकः ।

वृन्दावनवनक्रीडो नानाक्रीडाविशारदः ॥ १२८॥

वत्सपुच्छसमाकर्षी वत्सासुरनिषूदनः ।

बकारिरघसंहारी बालाद्यन्तकनाशनः ॥ १२९॥

यमुनानिलसञ्जुष्टसुमृष्टपुलिनप्रियः ।

गोपालबालपूगस्थः स्निग्धदध्यन्नभोजनः ॥ १३०॥

गोगोपगोपीप्रियकृद्धनभृन्मोहखण्डनः ।

विधातुर्मोहजनकोऽत्यद्भुतैश्वर्यदर्शकः ॥ १३१॥

विधिस्तुतपदाम्भोजो गोपदारकबुद्धिभित् ।

कालीयदर्पदलनो नागनारीनुतिप्रियः ॥ १३२॥

दावाग्निशमनः सर्वव्रजभृज्जनजीवनः ।

मुञ्जारण्यप्रवेशाप्तकृच्छ्रदावाग्निदारणः ॥ १३३॥

सर्वकालसुखक्रीडो बर्हिबर्हावतंसकः ।

गोधुग्वधूजनप्राणो वेणुवाद्यविशारदः ॥ १३४॥

गोपीपिधानारुन्धानो गोपीव्रतवरप्रदः ।

विप्रदर्पप्रशमनो विप्रपत्नीप्रसाददः ॥ १३५॥

शतक्रतुवरध्वंसी शक्रदर्पमदापहः ।

धृतगोवर्धनगिरिर्व्रजलोकाभयप्रदः ॥ १३६॥

इन्द्रकीर्तिलसत्कीर्तिर्गोविन्दो गोकुलोत्सवः ।

नन्दत्राणकरो देवजलेशेडितसत्कथः ॥ १३७॥

व्रजवासिजनश्लाघ्यो निजलोकप्रदर्शकः ।

सुवेणुनादमदनोन्मत्तगोपीविनोदकृत् ॥ १३८॥

गोधुग्वधूदर्पहरः स्वयशःकीर्तनोत्सवः ।

व्रजाङ्गनाजनारामो व्रजसुन्दरिवल्लभः ॥ १३९॥

रासक्रीडारतो रासमहामण्डलमण्डनः ।

वृन्दावनवनामोदी यमुनाकूलकेलिकृत् ॥ १४०॥

गोपिकागीतिकागीतः शङ्खचूडशिरोहरः ।

महासर्पमुखग्रस्तत्रस्तनन्दविमोचकः ॥ १४१॥

सुदर्शनार्चितपदो दुष्टारिष्टविनाशकः ।

केशिद्वेषो व्योमहन्ता श्रुतनारदकीर्तनः ॥ १४२॥

अक्रूरप्रियकृत्क्रूररजकघ्नः सुवेशकृत् ।

सुदामादत्तमालाढ्यः कुब्जाचन्दनचर्चितः ॥ १४३॥

मथुराजनसंहर्षी चण्डकोदण्डखण्डकृत् ।

कंससैन्यसमुच्छेदी वणिग्विप्रगणार्चितः ॥ १४४॥

महाकुवलयापीडघाती चाणूरमर्दनः । ?

रङ्गशालागतापारनरनारीकृतोत्सवः ॥ १४५॥

कंसध्वंसकरः कंसस्वसारूप्यगतिप्रदः ।

कृतोग्रसेननृपतिः सर्वयादवसौख्यकृत् ॥ १४६॥

तातमातृकृतानन्दो नन्दगोपप्रसाददः ।

श्रितसान्दीपनिगुरुर्विद्यासागरपारगः ॥ १४७॥

दैत्यपञ्चजनध्वंसी पाञ्चजन्यदरप्रियः ।

सान्दीपनिमृतापत्यदाता कालयमार्चितः ॥ १४८॥

सैरन्ध्रीकामसन्तापशमनोऽक्रूरप्रीतिदः ।

शार्ङ्गचापधरो नानाशरसन्धानकोविदः ॥ १४९॥

अभेद्यदिव्यकवचः श्रीमद्दारुकसारथिः ।

खगेन्द्रचिह्नितध्वजश्चक्रपाणिर्गदाधरः ॥ १५०॥

नन्दकीयदुसेनाढ्योऽक्षयबाणनिषङ्गवान् ।

सुरासुराजेयरण्यो जितमागधयूथपः ॥ १५१॥

मागधध्वजिनीध्वंसी मथुरापुरपालकः ।

द्वारकापुरनिर्माता लोकस्थितिनियामकः ॥ १५२॥

सर्वसम्पत्तिजननः स्वजनानन्दकारकः ।

कल्पवृक्षाक्षितमहिः सुधर्मानीतभूतलः ॥ १५३॥

यवनासुरसंहर्ता मुचुकुन्देष्टसाधकः ।

रुक्मिणीद्विजसंमन्त्ररथैकगतकुण्डिनः ॥ १५४॥

रुक्मिणीहारको रुक्मिमुण्डमुण्डनकारकः ।

रुक्मिणीप्रियकृत्साक्षाद्रुक्मिणीरमणीपतिः ॥ १५५॥

रुक्मिणीवदनाम्भोजमधुपानमधुव्रतः ।

स्यमन्तकनिमित्तात्मभक्तर्क्षाधिपजित्शुचिः ॥ १५६॥

जाम्बवार्चितपादाब्जः साक्षाज्जाम्बवतीपतिः ।

सत्यभामाकरग्राही कालिन्दीसुन्दरीप्रियः ॥ १५७॥

सुतीक्ष्णशृङ्गवृषभसप्तजिद्राजयूथभिद् ।

नग्नजित्तनयासत्यानायिकानायकोत्तमः ॥ १५८॥

भद्रेशो लक्ष्मणाकान्तो मित्रविन्दाप्रियेश्वरः ।

मुरुजित्पीठसेनानीनाशनो नरकान्तकः ॥ १५९॥

धरार्चितपदाम्भोजो भगदत्तभयापहा ।

नरकाहृतदिव्यस्त्रीरत्नवाहादिनायकः ॥ १६०॥

अष्टोत्तरशतद्व्यष्टसहस्रस्त्रीविलासवान् ।

सत्यभामाबलावाक्यपारिजातापहारकः ॥ १६१॥

देवेन्द्रबलभिज्जायाजातनानाविलासवान् ।

रुक्मिणीमानदलनः स्त्रीविलासाविमोहितः ॥ १६२॥

कामतातः साम्बसुतोऽसङ्ख्यपुत्रप्रपौत्रवान् ।

उशायानितपौत्रार्थबाणबाहुसस्रछित् ॥ १६३॥

नन्द्यादिप्रमथध्वंसी लीलाजितमहेश्वरः ।

महादेवस्तुतपदो नृगदुःखविमोचकः ॥ १६४॥

ब्रह्मस्वापहरक्लेशकथास्वजनपालकः ।

पौण्ड्रकारिः काशिराजशिरोहर्ता सदाजितः ॥ १६५॥

सुदक्षिणव्रताराध्यशिवकृत्यानलान्तकः ।

वाराणसीप्रदहनो नारदेक्षितवैभवः ॥ १६६॥

अद्भुतैश्वर्यमहिमा सर्वधर्मप्रवर्तकः ।

जरासन्धनिरोधार्तभूभुजेरितसत्कथः ॥ १६७॥

नारदेरितसन्मित्रकार्यगौरवसाधकः ।

कलत्रपुत्रसन्मित्रसद्वृत्ताप्तगृहानुगः ॥ १६८॥

जरासन्धवधोद्योगकर्ता भूपतिशर्मकृत् ।

सन्मित्रकृत्याचरितो राजसूयप्रवर्तकः ॥ १६९॥

सर्वर्षिगणसंस्तुत्यश्चैद्यप्राणनिकृन्तकः ।

इन्द्रप्रस्थजनैः पूज्यो दुर्योधनविमोहनः ॥ १७०॥

महेशदत्तसौभाग्यपुरभिच्छत्रुघातकः ।

दन्तवक्त्ररिपुच्छेत्ता दन्तवक्त्रगतिप्रदः ॥ १७१॥

विदूरथप्रमथनो भूरिभारावतारकः ।

पार्थदूतः पार्थहितः पार्थार्थः पार्थसारथिः ॥ १७२॥

पार्थमोहसमुच्छेदी गीताशास्त्रप्रदर्शकः ।

पार्थबाणगतप्राणवीरकैवल्यरूपदः ॥ १७३॥

दुर्योधनादिदुर्वृत्तदहनो भीष्ममुक्तिदः ।

पार्थाश्वमेधाहरकः पार्थराज्यप्रसाधकः ॥ १७४॥

पृथाभीष्टप्रदो भीमजयदो विजयप्रदः ।

युधिष्ठिरेष्टसन्दाता द्रौपदीप्रीतिसाधकः ॥ १७५॥

सहदेवेरितपदो नकुलार्चितविग्रहः ।

ब्रह्मास्त्रदग्धगर्भस्थपूरुवंशप्रसाधकः ॥ १७६॥

पौरवेन्द्रपुरस्त्रीभ्यो द्वारकागमनोत्सवः ।

आनर्तदेशनिवसत्प्रजेरितमहत्कथः ॥ १७७॥

प्रियप्रीतिकरो मित्रविप्रदारिद्र्यभञ्जनः ।

तीर्थापदेशसन्मित्रप्रियकृन्नन्दनन्दनः ॥ १७८॥

गोपीजनज्ञानदाता तातक्रतुकृतोत्सवः ।

सद्वृत्तवक्ता सद्वृत्तकर्ता सद्वृत्तपालकः ॥ १७९॥

तातात्मज्ञानसन्दाता देवकीमृतपुत्रदः ।

श्रुतदेवप्रियकरो मैथिलानन्दवर्धनः ॥ १८०॥

पार्थदर्पप्रशमनो मृतविप्रसुतप्रदः ।

स्त्रीरत्नवृन्दसन्तोषी जनकेलिकलोत्सवः ॥ १८१॥

चन्द्रकोटिजनानन्दी भानुकोटिसमप्रभः ।

कृतान्तकोटिदुर्लङ्घ्यः कामकोटिमनोहरः ॥ १८२॥

यक्षराट्कोटिधनवान्मरुत्कोटिस्ववीर्यवान् ।

समुद्रकोटिगम्भीरो हिमवत्कोट्यकम्पनः ॥ १८३॥

कोट्यश्वमेधाढ्यहरः तीर्थकोट्यधिकाह्वयः ।

पीयूषकोटिमृत्युघ्नः कामधुक्कोट्यभीष्टदः ॥ १८४॥

शक्रकोटिविलासाढ्यः कोटिब्रह्माण्डनायकः ।

सर्वामोघोद्यमोऽनन्तकीर्तिनिःसीमपौरुषः ॥ १८५॥

सर्वाभीष्टप्रदयशाः पुण्यश्रवणकीर्तनः ।

ब्रह्मादिसुरसङ्गीतवीतमानुषचेष्टितः ॥ १८६॥

अनादिमध्यनिधनो वृद्धिक्षयविवर्जितः ।

स्वभक्तोद्धवमुख्यैकज्ञानदो ज्ञानविग्रहः ॥ १८७॥

विप्रशापच्छलध्वस्तयदुवंशोग्रविक्रमः ।

सशरीरजराव्याधस्वर्गदः स्वर्गिसंस्तुतः ॥ १८८॥

मुमुक्षुमुक्तविषयीजनानन्दकरो यशः ।

कलिकालमलध्वंसियशाः श्रवणमङ्गलः ॥ १८९॥

भक्तप्रियो भक्तहितो भक्तभ्रमरपङ्कजः ।

स्मृतमात्राखिलत्राता यन्त्रमन्त्रप्रभञ्जकः ॥ १९०॥

सर्वसम्पत्स्राविनामा तुलसीदामवल्लभः ।

अप्रमेयवपुर्भास्वदनर्घ्याङ्गविभूषणः ॥ १९१॥

विश्वैकसुखदो विश्वसज्जनानन्दपालकः ।

सर्वदेवशिरोरत्नमद्भुतानन्तभोगवान् ॥ १९२॥

अधोक्षजो जनाजीव्यः सर्वसाधुजनाश्रयः ।

समस्तभयभिन्नामा स्मृतमात्रार्तिनाशकः ॥ १९३॥

स्वयशःश्रवणानन्दजनरागी गुणार्णवः ।

अनिर्देश्यवपुस्तप्तशरणो जीवजीवनः ॥ १९४॥

परमार्थः परंवेद्यः परज्योतिः परागतिः ।

वेदान्तवेद्यो भगवाननन्तसुखसागरः ॥ १९५॥

जगद्बन्धध्वंसयशा जगज्जीवजनाश्रयः ।

वैकुण्ठलोकैकपतिर्वैकुण्ठजनवल्लभः ॥ १९६॥

प्रद्युम्नो रुक्मिणीपुत्रः शम्बरघ्नो रतिप्रियः ।

पुष्पधन्वा विश्वजयी द्युमत्प्राणनिषूदकः ॥ १९७॥

अनिरुद्धः कामसुतः शब्दयोनिर्महाक्रमः ।

उषापतिर्वृष्णिपतिर्हृषीकेशो मनःपतिः ॥ १९८॥

श्रीमद्भागवताचार्यः सर्ववेदान्तसागरः ।

शुकः सकलधर्मज्ञः परीक्षिन्नृपसत्कृतः ॥ १९९॥

श्रीबुद्धो दुष्टबुद्धिघ्नो दैत्यवेदबहिष्करः ।

पाखण्डमार्गप्रवदो निरायुधजगज्जयः ॥ २००॥

कल्की कलियुगाच्छादी पुनः सत्यप्रवर्तकः ।

विप्रविष्णुयशोऽपत्यो नष्टधर्मप्रवर्तकः ॥ २०१॥

सारस्वतः सार्वभौमो बलित्रैलोक्यसाधकः ।

अष्टम्यन्तरसद्धर्मवक्ता वैरोचनिप्रियः ॥ २०२॥

आपः करो रमानाथोऽमरारिकुलकृन्तनः ।

सुरेन्द्रहितकृद्धीरवीरमुक्तिबलप्रदः ॥ २०३॥

विष्वक्सेनः शम्भुसखो दशमान्तरपालकः ।

ब्रह्मसावर्णिवंशाब्धिहितकृद्विश्ववर्धनः ॥ २०४॥

धर्मसेतुरधर्मघ्नो वैद्यतन्त्रपदप्रदः ।

असुरान्तकरो देवार्थकसूनुः सुभाषणः ॥ २०५॥

स्वधामा सूनृतासूनुः सत्यतेजो द्विजात्मजः ।

द्विषन्मनुयुगत्राता पातालपुरदारणः ॥ २०६॥

दैवहोत्रिर्वार्हतोयो दिवस्पतिरतिप्रियः ।

त्रयोदशान्तरत्राता योगयोगिजनेश्वरः ॥ २०७॥

सत्त्रायणो बृहद्बाहुर्वैनतेयो विदुत्तमः ।

कर्मकाण्डैकप्रवदो वेदतन्त्रप्रवर्तकः ॥ २०८॥

परमेष्ठी सुरज्येष्ठो ब्रह्मा विश्वसृजाम्पतिः ।

अब्जयोनिर्हंसवाहः सर्वलोकपितामहः ॥ २०९॥

विष्णुः सर्वजगत्पाता शान्तः शुद्धः सनातनः ।

द्विजपूज्यो दयासिन्धुः शरण्यो भक्तवत्सलः ॥ २१०॥

रुद्रो मृडः शिवः शास्ता शम्भुः सर्वहरो हरः ।

कपर्दी शङ्करः शूली त्र्यक्षोऽभेद्यो महेश्वरः ॥ २११॥

सर्वाध्यक्षः सर्वशक्तिः सर्वार्थः सर्वतोमुखः ।

सर्वावासः सर्वरूपः सर्वकारणकारणम् ॥ २१२॥

इत्येतत्कथितं विप्र विष्णोर्नामसहस्रकम् ।

सर्वपापप्रशमनं सर्वाभीष्टफलप्रदम् ॥ २१३॥

मनःशुद्धिकरं चाशु भगवद्भक्तिवर्धनम् ।

सर्वविघ्नहरं सर्वाश्चर्यैश्वर्यप्रदायकम् ॥ २१४॥

सर्वदुःखप्रशमनं चातुर्वर्ग्यफलप्रदम् ।

श्रद्धया परया भक्त्या श्रवणात्पठनाज्जपात् ॥ २१५॥

प्रत्यहं सर्ववर्णानां विष्णुपादाश्रितात्मनाम् ।

एतत्पठन् द्विजो विद्यां क्षत्रियः पृथिवीमिमाम् ॥ २१६॥

वैश्यो महानिधिं शूद्रो वाञ्छितां सिद्धिमाप्नुयात् ।

द्वात्रिंशदपराधान्यो ज्ञानाज्ञानाच्चरेद्धरेः ॥ २१७॥

नाम्ना दशापराधांश्च प्रमादादाचरेद्यदि ।

समाहितमना ह्येतत्पठेद्वा श्रावयेज्जपेत् ॥ २१८॥

स्मरेद्वा शृणुयाद्वापि तेभ्यः सद्यः प्रमुच्यते ।

नातः परतरं पुण्यं त्रिषु लोकेषु विद्यते ॥ २१९॥

यस्यैककीर्तनेनापि भवबन्धाद्विमुच्यते ।

अतस्त्वं सततं भक्त्या श्रद्धया कीर्तनं कुरु ॥ २२०॥

विष्णोर्नामसहस्रं ते भगवत्प्रीतिकारणम् ।

श्रीनारद उवाच ।

धन्योऽस्म्यनुगृहीतोऽस्मि त्वयातिकरुणात्मना ।

यतः कृष्णस्य परमं सहस्रं नामकीर्तितम् ॥ २२१॥

यद्यालस्यात्प्रमादाद्वा सर्वं पठितुमन्वहम् ।

न शक्नोमि तदा देव किं करोमि वद प्रभो ॥ २२२॥

श्रीशिव उवाच ।

यदि सर्वं न शक्नोषि प्रत्यहं पठितुं द्विज ।

तदा कृष्णेति कृष्णेति कृष्णेति प्रत्यहं वद ॥ २२३॥

एतेन तव विप्रर्षे सर्वं सम्पद्यते सकृत् ।

किं पुनर्भगवन्नाम्नां सहस्रस्य प्रकीर्तनात् ॥ २२४॥

यन्नामकीर्तनेनैव पुमान् संसारसागरम् ।

तरत्यद्धा प्रपद्ये तं कृष्णं गोपालरूपिणम् ॥ २२५॥

इति सात्वततन्त्रे श्रीकृष्णसहस्रनामषष्ठः पटलः ॥६॥

Source, licence & text notes

कृष्णसहस्रनामस्तोत्रम् (सात्वततन्त्रम्) — sa.wikisource.org contributors

Adaptation: the source HTML was converted to plain text and line breaks were normalised. An Aarti extracted from a collection omits draft editing prompts and reference-number markers. Attribution and the same licence accompany text downloads. Original-script text is supplied; an English translation has not been added.

Texts can have traditional variants. Specialist text and language review remains pending. Statements within a hymn reflect its devotional tradition and are not a guarantee of health, wealth or another outcome.

Back to the collection

Ancient wisdom. A more thoughtful everyday.

Begin with your Kundali