Rooted in tradition. Guided by understanding.
Calculators and reading tools are free to use
Shiva

रुद्र

Read रुद्र in its original Devanagari text, with source attribution, copy, download and print options.

रुद्र [[लेखकः :|]]

रुद्र

ॐ अथात्मानं शिवात्मानं श्री रुद्ररुपं ध्यायेत् ।

शुद्धस्फटिकसंकाशं त्रिनेत्रं पञ्चवक्त्रकम् ।

गंगाधरं दशभुजं सर्वाभरणभूषितम् ।।

नीलग्रीवं शशाड्कांड्कं नागयज्ञोपवीतिनम् ।

व्याग्रचर्मोत्तरीयं च वरेण्यमभयप्रदम् ।।

कमण्डल्वक्षसूत्राणां धारिणं शूलपाणिनम् ।

ज्वलन्तं पिड्गलजटाशिखामुद्योतधारिणम् ।।

वृषस्कन्धसमारूढं उमादेहार्धधारिणम् ।

अमृतेनाप्लुतं शान्तं दिव्यभोगसमन्वितम् ।।

दिग्देवतासमायुक्तं सुरासुरनमस्कृतम् ।

नित्यं च शाश्वतं शुद्धं ध्रुवमक्षरमव्ययम् ।।

सर्वव्यापिनमीशानं रुद्रं वै विश्वरूपिणम् ।

एवं ध्यात्वा द्विजः स्म्यक ततो यजनमारभेत् ।।

अथातो रुद्रस्नानार्चनाभिषेकविधिं व्याख्यास्याम: ।।

आदित एव तीर्थे स्नात्वा उदेत्य शुचि: प्रयतो

ब्रह्मचारी शुक्लवासा

देवाभिनुखः स्थित्वा आत्मनि देवता: स्थापयेत् ।।

प्रजनने ब्रह्मा तिष्ठतु । पादयोर्विष्णुस्तिष्ठतु ।

हस्तयोर्हरस्तिष्ठतु ।

बाह्वोरिन्द्रस्तिष्ठतु । जठरेSग्निस्तिष्ठतु ।

हृदये शिवस्तिष्ठतु ।

कण्ठे वसवस्तिष्ठन्तु ।

वक्त्रे सरस्वती तिष्ठतु । नासिकयोर्वायुस्तिष्ठतु ।

नयनयोश्चन्द्रादित्यौ तिष्ठेताम् ।

कर्णयोर्श्विनौ तिष्ठेताम् ।

ललाटे रुद्रास्तिष्ठन्तु । मूर्ध्न्यादित्यास्तिष्ठन्तु ।

शिरसि महादेव्स्तिष्ठतु ।

शिखायां वामदेवस्तिष्ठतु । पृष्ठे पिनाकी तिष्ठतु ।

पुरतः शूली तिष्ठतु ।

पार्श्वयो: शिवाशंकरौ तिष्ठेताम् ।

सर्वतो वायुस्तिष्ठतु ।

ततो बहि: सर्वतोSग्निर्ज्वालामालापरिवृतस्तिष्ठतु ।

सर्वेष्वड्गेषु सर्वा देवता यथास्थानं तिष्ठन्तु ।

मां रक्षन्तु ।।

अग्निर्मे वाचि श्रितः । वाक हृदये ।

हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

वायुर्मे प्राणे शिर्तः । प्राणो हृदये ।

हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

सूर्यो मे चक्षुषि श्रितः । चक्षुर हृदये ।

हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

चंद्रमा मे मनसि श्रितः । मनो हृदये ।

हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

दिशो मे श्रोत्रे श्रिता: । श्रोत्रं हृदये ।

हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

आपो मे रेतसि श्रिता: । रेतो हृदये ।

हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

पृथिवी मे शरीरे श्रिता । शरीरं हृदये ।

हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

ओषधिवनस्पतयो मे लोमसु श्रिता: ।

लोमानि हृदये ।

हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

इन्द्रो मे बले श्रितः । बलं हृदये ।

हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

पर्जन्यो मे मूर्ध्नि श्रितः । मूर्धा हृदये ।

हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

ईशानो मे मन्यौ श्रितः । मन्युर्हृदये ।

हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

आत्मा म आत्मानि श्रितः । आत्मा हृदये ।

हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

पुनर्म आत्मा पुनरायुरागात् ।

पुनः प्राणः पुनराकूतमागात्

वैश्वानरो रश्मिभिर्वावृधानः ।

अंतस्तिष्ठत्वमृतस्य गोपा: ।।

अङ्गुलिविन्यासः

अङ्गुलिविन्यासः2

अस्य श्री रुद्राध्यायप्रश्नमहामन्त्रस्य

अघोर ऋषि:, अनुष्टुभ् छन्दः,

संकर्षण्मूर्तिस्वरुपो योS सावादित्यः परमपुरुषः

स एष रुद्रो देवता । नमः शिवायेति बीजम् ।

शिवतरायेति शक्ति: । महादेवायेति कीलकम् ।

श्री साम्बसदाशिवप्रसादसिद्ध्यर्थे

जपे विनियोगः ।।

ॐ अग्निहोत्रात्मने अङ्गुष्ठाभ्यां नमः ।

दर्शपूर्णमासात्मने तर्जनीभ्यां नमः ।

चातुर्मास्यात्मने मध्यमाभ्यां नम: ।

निरुढपशुबन्धात्मने अनामिकाभ्यां नमः ।

ज्योतिष्टोमात्मने कनिष्ठिकाभ्यां नमः ।

सर्वक्रत्वात्मने करतलकरपृष्ठाभ्यां नम: ।

अगिनिहोत्रात्मने हृदयाय नमः।

दर्शपूर्णमासात्मने शिरसे स्वाहा ।

चातुर्मास्यात्मने शिखायै वषट् ।

निरूढपशुबन्धात्मने कवचाय हुं ।

ज्योतिष्टोमात्मने नेत्रत्रयाय वौषट् ।

सर्वक्रत्वात्मने अस्त्राय फट् ।

ॐ भू: भुवः स्वः ॐ इति दिग्बन्धः ।।

।। ध्यानम ।।

आपाताळनभःस्थलान्तभुवनब्रह्माण्डमाविस्फुरत्

ज्योति:स्फाटिकलिड्गमौळिविलसत्पूर्णेन्दुवान्तामृतै: ।

अस्तोकाप्लुतमेकमीशमनीशं रुद्रानुवाकाञ्जपन्

ध्यायेदीप्सितसिद्धये ध्रुवपदं

विप्रोSभिषिञ्चेत शिवम् ।।

ब्रह्माण्डव्याप्तदेहाभसितहिमरुचाभासमानाभुजड्गै:

कण्ठे काला: कपर्दाकलितशशिकलाश्चण्डकोदण्डहस्ता: ।

त्र्यक्षारुद्राक्षमाला: प्रकटितविभवा:

शाम्भवा मूर्तिमेदा

रुद्रा: श्रीरुद्रसूक्तप्रकटितविभवा नः

प्रयच्छन्तु सौख्यम् ।।

ॐ गणानां त्वा गणपतिं हवामहे

कविं कवीनामुपमश्रवस्तमम् ।

ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः

श्रुण्वन्नूतिभि: सीद सादनम् ।

महागणपतये नमः ।।

शं च मे मयश्च मे प्रियं च मेSनुकामश्च मे

कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे

वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे

यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे

विश्वं च मे मह्श्च मे संविच्च मे ज्ञात्रं च मे

सूश्च मे प्रसूश्च मे सीरं च मे लयश्च मे

ऋतं च मेSमृतं च मेSयक्ष्मं च मेSनामयच्च मे

जीवातुश्च मे दीर्घायुत्वं च मेSनमित्रं च मेSभयं च मे

सुगं च मे शयनं च मे सूषा च मे सुदिनं च मे

ॐ शान्ति: शान्ति: शान्ति: ।।

Source, licence & text notes

रुद्र — sa.wikisource.org contributors

Adaptation: the source HTML was converted to plain text and line breaks were normalised. An Aarti extracted from a collection omits draft editing prompts and reference-number markers. Attribution and the same licence accompany text downloads. Original-script text is supplied; an English translation has not been added.

Texts can have traditional variants. Specialist text and language review remains pending. Statements within a hymn reflect its devotional tradition and are not a guarantee of health, wealth or another outcome.

Back to the collection

Ancient wisdom. A more thoughtful everyday.

Begin with your Kundali