Rooted in tradition. Guided by understanding.
Calculators and reading tools are free to use
Shiva

शिवमानसपूजा

Read शिवमानसपूजा in its original Devanagari text, with source attribution, copy, download and print options.

शिवमानसपूजा [[लेखकः :|]]

||श्री शिवमानसपूजा ||

रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं

नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् ।

जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा

दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥१॥

सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं

भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् ।

शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलम्

ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥२॥

छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं

वीणाभेरिमृदङ्गकाहलकला गीतं च नृत्यं तथा ।

साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया

सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥३॥

आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं

पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः ।

सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो

यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥४॥

इत्येवं हरपूजने प्रतिदिनं यो वा त्रिसन्ध्यं स्मरेत्

सेवाश्लोकचतुष्टयं प्रतिदिनं पूजा हरेर्मानसि ।

सोऽयं सौख्यमवाप्नुयाद्द्युतिधरं साक्षद्धरेर्दर्शनं

वासस्तेन महावसानसमये कैलासलोकं गता ॥

करचरणकृतं वाक्कायजं कर्मजं वा ।

श्रवणनयनजं वा मानसं वापराधम् ॥

विदितमविदितं वा सर्वमेतत् क्षमस्व ।

जय जय करुणाब्धे श्री महादेव शम्भो ॥

Source, licence & text notes

शिवमानसपूजा — sa.wikisource.org contributors

Adaptation: the source HTML was converted to plain text and line breaks were normalised. An Aarti extracted from a collection omits draft editing prompts and reference-number markers. Attribution and the same licence accompany text downloads. Original-script text is supplied; an English translation has not been added.

Texts can have traditional variants. Specialist text and language review remains pending. Statements within a hymn reflect its devotional tradition and are not a guarantee of health, wealth or another outcome.

Back to the collection

Ancient wisdom. A more thoughtful everyday.

Begin with your Kundali