अमरकविविरचित एकाक्षरी-कोशः
Read अमरकविविरचित एकाक्षरी-कोशः in its original Devanagari text, with source attribution, copy, download and print options.
(१)
विश्वाभिधानकोशानि प्रविलोक्य प्रभाष्यते ।
अमरेण कवीन्द्रेणैकाक्षरनाममालिका ॥१॥ (२)
अः कृष्णः आः स्वयंभूरिः काम ई श्रीरुरीश्वरः ।
ऊ रक्षणः ऋ ऋ ज्ञेयौ देवदानवमातरौ ॥२॥ (३)
लर्देवसूर्ल्रूर्वाराही भवेदेर्विष्णुरैः शिवः ।
ओर्वेधा औरनंतः स्यादं ब्रह्म परम्अः शिवः ॥ (४)
को ब्रह्मात्मप्रकाशार्के कः स्याद्वायुयमाग्निषु।
कं शीर्षे सुसुखे कुस्तु भूमौ शब्दे च किं पुनः ॥ (५)
स्यात्क्षेपनिन्दयोः प्रश्ने वितर्के च खमिन्द्रिये ।
स्वर्ग्गे व्योम्नि मुखे शून्ये सुखे संविदि खो रवौ ॥ (६)
गस्तु गातरि गंधर्व्वे ज्ञायते गीतौ गो विनायके ।
स्वर्गे दिशि पशौ वज्रे भूमाविन्दौ जले गिरि ॥ (७)
घस्तु सुघटीशे घा किंकिष्या च घुर्ध्वनौ ।
ङं मञ्जने ङो वृषभेजिने चः चन्द्रचोरयोः ॥ (८)
चःसूर्ये कच्छपे छं तु निर्मले जस्तु जेतरि ।
विजये तेजसि वाचि पिशाच्यां जिः जवेऽपि च॥ (९)
झो नष्टे रवे वायौ ञो गायने घर्घरध्वनौ।
टं पृथिव्यां करटे च ठो ध्वनौ ठो महेश्वरे ।। (१०)
शून्ये बृहध्वनौ चंद्रमंङले डं शिवे ध्वनौ ।
ढो भये निर्गुणे शब्दे ढक्कायां णस्तु निश्चये ॥ (११
ज्ञाने तस्तस्करे क्रोडपुंच्छयोस्ता पुनर्दया।
थो भीत्राणे महीध्रे दं पत्न्यां दा दातुदानयोः ॥ (१२)
बन्धे च धा गुह्ये केशे धातरि धीर्मतौ ।
धूर्भारकंपचिंतासु नौ नरे बन्धुबुद्धयोः ॥ (१३)
निस्तु नेतरि नुः स्तुत्यां नौः सूर्ये पस्तु पातरि ।
पावने जलयाने च फो झंझाजलफेनयोः ॥ (१४)
भाः कांतौ भूर्भुवः स्थाने भीर्भये मः शिवे विधौ ।
चंद्रे शिरसि मा माने श्रीमात्रौवारणेऽव्ययम् ॥ (१५)
मुः पुंसि बंधने यस्तु मातरिश्वनि यं यशः ।
यास्तु यातरि खट्वांगे याने लक्ष्म्यां च रो धृतौ ॥ (१६)
तीव्रे वैश्वानरे कामे राः स्वर्णे जलदे ध्वनौ ।
री भ्रमे रूर्भये सूर्ये लक्षण इंद्रे चलनेपि च ॥ (१७)
लं तैले लीः पुनः श्लेषे ली भये वो महेश्वरे ।
वः पश्चिमदिशास्वामी व इवार्थे स्मरेऽप्ययम् ॥ (१८)
शं शुभे शा तु शोभायाँ शी शयने शु निशाकरे ।
शः श्लिष्टे पुनर्गर्भे विमोक्षे शः परोक्षके ।। (१९)
सा लक्ष्म्यां हो निपाते च हुस्ते दारुणि शूलिनि ।
शं क्षेत्ररक्षसीत्युक्ता माला प्राक्सूरिसम्मता ॥ इति एकाक्षरीनाममाला समाप्ता
अमरकविविरचित एकाक्षरी-कोशः — sa.wikisource.org contributors
Adaptation: the source HTML was converted to plain text and line breaks were normalised. An Aarti extracted from a collection omits draft editing prompts and reference-number markers. Attribution and the same licence accompany text downloads. Original-script text is supplied; an English translation has not been added.
Texts can have traditional variants. Specialist text and language review remains pending. Statements within a hymn reflect its devotional tradition and are not a guarantee of health, wealth or another outcome.